________________
प्रायश्चित्तसंग्रहे—
१५८
द्वादश व्रतानि अधश्चातिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इत्येते स्थापयितव्याः । संदृष्टिरप्येषामेषा भवति । उच्चारणा विनिश्चीयतेस्थूलकृतप्राणातिपातस्यातिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इति प्रथमाणुव्रतस्य पंचोच्चारणा । एवं शेषैकादशव्रतेष्वपि पंच पंचोच्चारणा भवन्ति, सर्वव्रतानां सर्वोच्चारणाः संकलिताः षष्ठिर्भवन्ति । मूलोच्चारणाभिः पंचभिः सह पंचषष्ठिरुच्चारणा इति ॥ १४६ ॥
रेत मूत्रपुरीषाणि मद्यमांसमधूनि च । अभक्ष्यं भक्षयेत् षष्ठं दर्पतचेद्विषदक्षमाः ॥ १४७ ॥ रेतोमूत्रपुरीषाणि - रेतः क्षरणं, मूत्रं प्रस्रवणं, पुरीषमुच्चारः । मद्यमांसमधूनि च - मयं सुरा, मांसं पिशितं, मधु माक्षिकार्दितानि च । अभक्ष्यं - अभोज्यं रुधिरास्थिचर्मप्रमुखं च यदि । भक्षयेत् -- अभ्यवहरति प्रमादेन तदानीं तस्य जघन्योपासकस्य षष्ठं प्रायश्चित्तं भवति । दर्पतश्चेत् — चेद्यदि, दर्पतोऽहंकारात् पूर्वोक्तमश्नाति तदानीं द्विषट्क्षमा: - उपवासा द्विषट् द्वादश भवन्ति प्रायश्चित्तम् ॥ १४७ ॥
-
पंचोदुम्बर सेवायां प्रमादेन विशोषणं । चाण्डालकारुकाणां षडन्नपाननिषेवणे ॥ १४८ ॥
पंचोदुम्बर सेवायां - पंचोदुम्बराणि वटाश्वत्थोदुम्बर कठूमर विशेषफलानि तेषां दर्पतोऽभ्यवहरणे कृते द्वादशोपवासाः । प्रमादेन च विशोषणं - उपवासः प्रायश्चित्तं । चाण्डालकारुकाणां षडन्नपाननिषेवणे- चांडाला - दीनां कारुकाणां कारूणां वरुटरजकादीनां च अन्नपानयोर्निषेवणेऽनुभवने कृते सति षट् षट्टिशोषणानि भवन्ति ॥ १४८ ॥
सद्योलंधि (बि) तगोघात वन्दी गृहसमाहतान् । ? कृमिदष्टं च संस्पृश्य क्षमणानि षडश्नुते ॥ १४९ ॥ १ सदृष्टि इति भूलः पाठः ।