________________
प्रायश्चित्त- चूलिका ।
१३३
च्छ्रासप्रमाणः । सकृत् - एतदेकवारे प्रायश्चित्तं । भूयः क्षमणं - भूयः पुनः पुनः भंगविशेषे सति पुरुमंडलनिर्विकृत्यैकस्थानाऽऽचाम्लानि भवन्ति तावया - वत्सर्वोत्कृष्टभंगे सति क्षमणमुपवासः सोपस्थानं प्रायश्चित्तं भवति । मूलमन्यतः — अन्यतः अन्येषु मूलगुणेषु पंचमहाव्रतेषु षडावश्यकेषु आचेलक्येऽस्नाने स्थितिभोजने एकभक्त इत्येतेषु सर्वेषु भंगे सकृत् सोपस्थानं क्षमणं प्रायश्चित्तं भवति । तदेवासकृदहंकाराप्रयत्नास्थिरादिषु पुरुष - विशेषात्प्रवर्धमानं षष्ठाष्टमदशमद्वादशोपवासार्धमासमासोपवासषण्मास संवसरादि ततो भवति, तदनन्तरं दीक्षाच्छेदो दिवसादिप्रायश्चित्तं ततः सर्वोत्कृष्टं मूलं विशुद्धिर्भवति ॥ ७१ ॥
,
मूलगुणाः ।
डुमूलावरणौ स्थास्नू आतापस्तद्द्द्वयात्मकः । चलयोगा भवन्त्यन्ये योगाः सर्वेऽथवा स्थिराः ॥ ७२ ॥ द्रुमूलातोरणौ स्थास्नू — डुमूलो द्रुममूलः वृक्षमूलो योगः, अतोरणोऽतोरणयोगश्चैतौ द्वावपि योगविशेषौ, स्थास्नू स्थिरौ स्थिरयोगौ भवतः । आतापस्तद्वयात्मकः -- आतापः आतापनयोगः । तद्द्यात्मकः चरस्थिरस्वभाको भवति चरोऽपि भवति स्थिरश्व भवति । अस्मिन देशकाले मयातापनयोगोऽवश्यं विधेय इत्यभिसन्धिनियमितः स्थिरः तद्विपरीतश्चल इति । चलयोगाः ―― चलयोगविशेषाः । भवन्ति - सन्ति । अन्ये - परेऽभ्रावकाशस्था- मौनादिकाः । योमाः सर्वेऽथवा स्थिराः - अथवान्येन प्रकारेण, सर्वेऽपि निर्विशेषाश्च योगास्तपोविधयः, स्थिरा ध्रुवा अपरिहार्यत्वात् आतत्परिसमाप्तेः ॥ ७२ ॥
भंजने स्थिरयोगानां नमस्कारादिकारणात् । दिनमानोपवासाः स्युरन्येषामुपवासना ॥ ७३ ॥