________________
अध्याय-२ ]
स्वार्थावबोधक्षम एव बोधः, प्रकाशते नार्थकथाऽन्यथा तु ।
10
परे परेभ्यो भयतस्तथापि, प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥ माया सती चेद् द्वयतत्त्वसिद्धिरथासतीहन्त ! कुतः प्रपञ्चः ! मायैव चेदर्थसहा च तत्कि, माता च बन्ध्या च भवत्परेषाम् ? १३
11
106
[ स्वाध्याय दोहन
अनेकमेकात्मकमेव वाच्यं, द्वयात्मकं वाचकमप्यवश्यम् ।
12
अतोऽन्यथावाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः || १४॥
13
चिदर्थशून्या च जडा च बुद्धि:, शब्दादितन्मात्रमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति, कियज्जडैर्न प्रथितं विरोधि ।। १५ ।। न तुल्यकालः फलहेतुभावो, हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्, विलूनशीर्णं सुगतेन्द्रजालम् ॥ १६ ॥ विना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमनुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाणमहो ! सुदृष्टं त्वदसूयिदृष्टम् ॥ १७ ॥
14
कृतप्रणाशाऽकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् ।
15
उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो ! महासाहसिकः परस्ते ॥ १८ ॥
सा वासना सा क्षणसन्ततिश्च नाभेदभेदाऽनुभयैर्घटेते ।
16
तटस्तटाऽदर्शिशकुन्त पोतन्यायात् त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥
"