________________
अध्याय-२ ]
100 [स्वाध्यायदोहनमहान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते ॥ ४ ॥ रागद्वेषौ महामल्लौ, दुर्जयो येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः शब्दमात्रो महादेवो, लौकिकानां मते मतः। शब्दतो गुणतश्चैवाऽर्थतोऽपि जिनशासने शक्तितो व्यक्तितश्चैव, विज्ञानं लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते ॥ ७ ॥ नमोऽस्तु ते महादेव !, महामदविवर्जित !। महालोभविनिर्मुक्त !, महागुणसमन्वित! ॥ ८ ॥ महारागो महाद्वेषो, महामोहस्तथैव च । कषायश्च हतो येन, महादेवः स उच्यते ॥ ९ ॥ महाकामो हतो येन, महाभयविवर्जितः। महाव्रतोपदेशी च, महादेवः स उच्यते ॥१०॥ महाक्रोधो महामानो, महामाया महामदः । महालोभो हतो येन, महादेवः स उच्यते महानन्दो दया यस्य, महाज्ञानी महातपाः । महायोगी महामौनी, महादेवः स उच्यते ॥१२॥