________________
___ सूत्रार्थमुक्तावल्याम्
[प्रथमा पेक्षया लोकस्य संख्येयभागेऽसंख्येयभागे संख्येषु भागेष्वसंख्येयेषु भागेषु देशोने वा लोकेऽवगाहते । 'अचित्तमहास्कन्धस्तु सर्वलोकव्याप्यपि तद्व्यापितयैकमेकसमयमवतिष्ठते तत ऊर्द्धमुपसंहारात् । एकसमयस्थितिकश्चानुपूर्वीद्रव्यं न सम्भवति, तस्य व्यादिसमयस्थितिकत्वात् , तस्मात्रयादिसमयस्थितिक
मन्यद्रव्यं नियमादेकेनापि प्रदेशेन ऊन एव लोकेऽवगाहते । अनानुपूर्वीद्रव्यन्तु क्षेत्रानुपूर्ध्या काला5 नुपूर्व्याश्च एकं द्रव्यं लोकस्यासंख्येयभाग एव वर्तते यद्धि कालत एकसमयस्थितिकं तत्क्षेत्रतोऽप्येक
प्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते, तच्च लोकासंख्येयभाग एव भवति, नानाद्रव्याणि तु सर्वत्र लोके, एकसमयस्थितिकद्रव्याणां सर्वत्र सत्त्वात् । अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासंख्येयभाग एव स्यात्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासंख्येयभाग एवावगाहते न परतः। स्पर्शनाद्वारे-एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं जघन्येन त्रीणि समयानि यावद्वर्त्तते जघन्य10 तोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वात् , उत्कर्षेणासंख्येयं कालं वर्त्तते, तत्कालात् परत एकेन परिणामेन द्रव्यस्यावस्थानाभावात् । नानाद्रव्याणि तु लोकस्य प्रतिप्रदेशं सर्वदा तैरशून्यत्वात्सर्वकालं भवन्ति । अनानुपूर्वीद्रव्याणि चैकद्रव्यापेक्षया जघन्योत्कृष्टचिन्तामुत्सृज्यैकं समयं नानाद्रव्याणि प्रतीत्य सर्वदा भवन्ति । एकद्रव्यापेक्षया जघन्योत्कृष्टचिन्तामुत्सृज्यावक्तव्यकद्रव्याणि द्वौ समयौ नाना
द्रव्यापेक्षया सर्वकालं भवन्ति, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्त15 व्यकत्वेऽभ्युपगम्यमाने जघन्योत्कृष्टचिन्ता सम्भवति । अन्तरद्वारे-एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यस्य
जघन्येनान्तरमेक: समयः, व्यादिसमयस्थितिकस्य द्रव्यस्य तत्परिणामपरित्यागेन परिणामान्तरेण समयमेकं स्थित्वा पुनस्तत्परिणामप्राप्तौ त्र्यादिसमयस्थितिकत्वेन जघन्यतया समयस्यैवान्तरप्राप्तेः। उत्कर्षण तु द्वौ समयौ, मध्ये द्विसमयं स्थित्वा पुनस्तस्यैव परिणामस्य प्राप्तेः मध्ये त्र्यादिसमयं यावत्सत्त्वे तु तत्राप्यानुपूर्वीत्वमनुभवेदित्यन्तरमेव न भवेत् । नानाद्रव्याणान्तु नास्त्यन्तरम् , लोकस्य कदापि तच्छू. 20 न्यत्वाभावात् । अनानुपूर्वीद्रव्यस्य चान्तरं द्वौ समयावेकद्रव्यापेक्षया, एकसमयस्थितिकं हि द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिक परिणाममासादयति तदा समयद्वयं जघन्येनान्तरकालः, यदि तु परिणामान्तरेणैकसमयमेव तिष्ठेत्तदाऽन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वात् । अथ समयद्वयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यात् । उत्कर्षेण त्वसंख्येयं कालं, तावन्तं कालं परिणामान्तरेण मध्ये स्थित्वा पुनरेकसमयस्थितिकपरिणामावाप्तेः, नानाद्रव्याणान्तु नास्त्यन्तरम् । अव25 क्तव्यकद्रव्यस्य तु द्विसमयस्थितिकं किञ्चिवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा पुनस्तमेव
पूर्वपरिणामं यदाश्नुते तदा जघन्योऽन्तरकालः समयः, असंख्येयं कालं स्थित्वा पुनस्तदवाप्तेरुत्कृष्टान्तरकाला असंख्यातः, नानाद्रव्यान्तरन्तु नात्येव । भागद्वारे-आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयैभीगैरधिकानि द्रव्यक्षेत्रानुपूर्योरिव, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसंख्येयभाग एव वर्तन्ते । भावद्वारे-त्रयाणामपि सादिपारिणामिकभाववर्त्तित्वम् । अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि 30 द्विसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वात् , अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि,
एकसमयस्थितिकद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वात् । आनुपूर्वीद्रव्याणान्तु पूर्वेभ्योऽसंख्यातगुणत्वमिति नैगमव्यवहारमतेनानौपनिधिकी कालानुपूर्वी । सङ्ग्रहमतेन सा क्षेत्रानुपूर्व्यामिव वाच्या।