________________
'सूत्रीमुक्तावस्याम्
. [पञ्चमी पूर्वगतं पूर्वमुक्तम् । मूलप्रथमानुयोगो गण्डिकानुयोगश्चेत्यनुयोगो द्विधा, तीर्थकराणां प्रथमसम्यबत्वावाप्तिलक्षणपूर्वभवादिगोचरो मूलप्रथमानुयोगः, एकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोगः स अनेकविधः कुलकरतीर्थकरगणधरादिभेदात् । चूलिका चतुण्णा पूर्वाणां चूलिकाः शेषाणि पूर्वाण्यचूलिकानीति ॥ ९९ ॥ । अस्य द्वादशाङ्गस्य नित्यत्वं सम्मानयितुर्विराधयितुश्च फलमाचष्टे
अचलं नित्यं द्वादशाङ्गं विराध्यातीतेऽनागते चामन्ताः प्रत्युत्पन्ने संख्येयाः संसारमनुवर्त्तन्त आराध्य व्यतिव्रजन्ति च ॥ १० ॥
अचलमिति, इदं द्वादशाङ्गं गणिपिटकं न कदाचिन्नासीदनादित्वात् , न कदाचिन्न भवति सदैव भावात् , न कदाचिन्न भविष्यत्यपर्यवसितत्वात् किन्त्वभूच भवति च भविष्यति चेति त्रिका10 लभावित्वादचलमत एव मेर्वा दिवद्धवमत एव नियतं पञ्चास्तिकायेषु लोकवचनवत् , नियतत्वा
देव शाश्वतं समयावलिकादिषु कालवचनवत् , शाश्वतत्वादेव पाचनादिप्रदानेऽप्यक्षयं गंगासिंधुप्रवाहेऽपि पद्महदवत् , अक्षयत्वादेवाव्ययं मानुषोत्तराद्वहिः समुद्रवत् , अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् , अवस्थितत्वादेव च नित्यमाकाशवत् । इदं द्वादशाङ्गं विराध्य जीवाश्चतुरन्तं संसार
कान्तारमतुपरिवर्तन्ते, इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम् , विराधनश्चानाज्ञया ततश्च 15 सूत्रामाशयाऽभिनिवेशतोऽन्यथापाठादिलक्षणयाऽतीतकालेऽनन्ता जीवाश्चतुरन्तं संसारकान्तारमनुपरा
वृत्तवन्तो जमालिवत् , अर्थानाज्ञयाऽभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत्, उभयानाज्ञया तु पञ्चविधाचारपरिज्ञानकरणोचतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् , वर्तमाने काले विशिष्टविराधकमनुष्यजीवानां संख्येयतया संख्येया इत्युक्तम् , त्रिविधामाज्ञामाराध्य जीवाश्चतुर्गतिकसंसारोल्लानेन मुक्तिमवाप्ता अवाप्नुवन्ति, अवाप्स्यन्ति च तावन्त एवेति ॥१०॥
20.
समवायाङ्गपयोघेरहमहमिकया समुत्थिता मुक्ताः । कस्य ममत्स्योत्कण्ठां नोद्दीपयति सात् कर्तुम् ॥
इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजय- . लब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यां समवायाङ्ग
लक्षणा पश्चमी मुक्तासरिका वृत्ता ।