SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ मुक्ता] समवायाङ्गमुक्तासरिका। आभिनिबोधिकेति, सिद्धानामादौ-सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः, ते चाभिनिबोधिकावरणादिक्षयस्वरूपाः, दर्शनावरणनवकायुश्चतुष्कज्ञानावरणीयपञ्चकान्तरायपञ्चकवेदनीयद्वयमोहनीयद्वयनामद्वयगोत्रद्वयानि क्षीणशब्दविशेषितत्वेन प्रोच्यमानानि एकत्रिंशत्संख्याकानि सिद्धादिगुणरूपाणि भवन्तीति भावः ॥ २८॥ ते गुणाः कथं सम्भवन्तीत्यत्र कारणभूतान् प्रशस्तयोगानाचष्टे आलोचननिरपलापदृढधर्मत्वादयः प्रशस्तयोगसङ्ग्रहाः ॥२९॥ आलोचनेति, योगाः मनोवाक्कायानां व्यापारास्ते प्रशस्ता ग्राह्याः तेषां शिष्याचार्यगतानां आलोचननिरपलापादिना प्रकारेण ये सङ्ग्रहास्ते द्वात्रिंशद्विधाः, तद्यथा-प्रशस्तमोक्षसाधनयोगसङ्घहाय शिष्येणाचार्याय सम्यगालोचना दातव्येत्यालोचना, आचार्योऽपि मोक्षसाधकयोगसंग्रहायैव . दत्तायामालोचनायां नान्यस्मै कथयेदिति निरपलापः, तदर्थमेव द्रव्यादिभेदाखापत्सु साधुना सुतरां 10 दृढधर्मिणा भाव्यमिति दृढधर्मता, तदर्थमेव परसाहाय्यानपेक्षं तपो विधेयमित्यनिश्रितोपधानता, सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका च शिक्षाऽऽसेवितव्येति शिक्षा, निष्प्रतिकर्मशरीरेणासेवनीयेति निष्प्रतिकर्मता, यशःपूजाद्यर्थित्वेनाप्रकाशयद्भिस्तपः कार्य यथाऽन्यो न जानाति तथा तपः कार्यमित्यर्थ इति अज्ञातता, अलोभेन यत्नः कार्य इत्यलोभता, परीषहादिजयः कार्य इति तितिक्षा, आर्जवं कर्तव्यमित्यार्जवम् , संयमवता भवितव्यमिति शुचित्वम् , सम्यग्दर्शश्शुद्धो भवेदिति सम्यग्दृष्टित्वम् , 16 चेतसः स्वास्थ्य कार्यमिति समाधिः, निर्माय आचारोपगतः स्यादित्याचारः, निर्मानो विनयोपगतो भवेदिति विनयित्वम् , धृतिप्रधाना मतिरदैन्यरूपा कार्येति धृतिमतित्वम् , संसाराद्भयं मोक्षाभिलाषो वा भवेदिति संवेगित्वम् , मायाशल्यं न कुर्यादित्यप्रणिधिः, सदनुष्ठानं कर्त्तव्यमिति सुविधिः, आश्रवनिरोधः कार्य इति संवरः, स्वकीयदोषस्य निरोधः कार्य इत्यात्तदोषोपसंहारः, समस्तविषयवैमुख्यं भावयेदिति सर्वकामविरक्तता, मूलगुणविषयमुत्तरगुणविषयश्च प्रत्याख्यानं कार्यमिति प्रत्याख्याने, द्रव्य-20 भावभेदभिन्नो व्युत्सर्गः कार्य इति व्युत्सर्गित्वम् , प्रमादवर्जनं कार्यमित्यप्रमादित्वम् , क्षणे क्षणे सामाचार्यनुष्ठानं कार्यमिति लवालवः, ध्यानं कार्यमिति ध्यानसंवरयोगः, मारणान्तिकेऽपि वेदनोदये न. क्षोभः कार्य इति उदितमारणान्तिकत्वम् , सङ्गानाञ्च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञाकर्त्तव्येति संगपरिज्ञा, प्रायश्चित्तकरणञ्च कार्यमिति प्रायश्चित्तकरणम् , मरणान्तकाले आराधना कार्यत्याराधना, एते प्रशस्तयोगसङ्ग्रहनिमित्तत्वात् योगसङ्ग्रहा इति ॥ २९ ॥ प्रशस्तयोगाभावे आशातना भवन्तीति ता आह शैक्षस्य रात्निकेऽविनया आशातनास्त्रयस्त्रिंशत् ॥३०॥ शैक्षस्येति, आ सामस्त्येन ज्ञानादिगुणाः शात्यन्तेऽपध्वस्यन्ते याभिस्ता आशातनाः-तत्र शैक्षस्य-शिक्षायोग्यस्य-अल्पपर्यायस्य रात्निके बहुपर्याये आचार्यादिविषये येऽविनयाः-अयोग्यवृत्तयस्ता स्त्रयस्त्रिंशद्विधाः-यथा, बहुपर्यायस्याऽऽसन्नगमनं यथा रजोऽश्चलादिः तस्य लगेत्, एवं तस्य 30 पुरतो गमनं तथा समपावं यथा भवति तथा समश्रेण्या गमनम् , एवमासन्नस्थितिः पुरःस्थितिः 25
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy