________________
हीनसत्त्वः सावद्यं योगं प्रत्याख्याय पुनः सेवते
योगसार: ४/३
३०८
संयुतम् । संसारबीजतां याति, न याति मोक्षबीजताम् ॥३४॥ स संसारेऽतीवाऽऽसतो भवति । ततस्तस्य पुनर्व्रतपरिणामो दुर्लभो भवति । स चिरमविरत एव भवति ॥२॥ अवतरणिका - हीनसत्त्वः स्वप्रतिज्ञां विलोपयतीति प्रदर्शितम् । अधुना स यथा स्वप्रतिज्ञां लोपयति तद् दर्शयति
मूलम् - सावद्यं सकलं योगं, प्रत्याख्यायाऽन्यसाक्षिकम् । विस्मृतात्मा पुनः क्लीबः, सेवते धैर्यवर्जितः ॥३॥
अन्वयः सकलं सावद्यं योगमन्यसाक्षिकं प्रत्याख्याय विस्मृतात्मा धैर्यवर्जितः क्लीबः (सन्) पुन: (सावद्यं योगं) सेवते ॥३॥
पद्मया वृत्तिः सकलम् सर्वम्, सावद्यम् - सह अवद्येन पापेन वर्त्तते इति सावद्य:-येन पापं बध्यते तादृशः, तम्, योगम् - क्रियारूपम्, अन्यसाक्षिकम् अन्येपरे साक्षिणः-द्रष्टारो यस्यां क्रियायां यथा स्यात्तथेति अन्यसाक्षिकम्, क्रियाविशेषणमेतत् प्रत्याख्याय - प्रतिज्ञाय, विस्मृतात्मा - विस्मृतः - न चिन्तित आत्मा - स्वलक्षणो येनेति विस्मृतात्मा, धैर्यवर्जितः धैर्येण-सत्त्वेन वर्जितः-रहित इति धैर्यवर्जितः, क्लीबः – कातरः, सन्नित्यत्राध्याहार्यम्, पुनः - प्रत्याख्यानात्पश्चात्, सावद्यं योगमित्यत्राध्याहार्यम्, सेवते - आचरति ।
-
-
-
1
-
સંસારનું બીજ બને છે, મોક્ષનું બીજ બનતું નથી. (૩૪)' તે સંસારમાં ખૂબ જ આસક્ત બને છે. તેથી તેને ફરી ચારિત્ર લેવાના ભાવ મુશ્કેલીથી થાય છે. તે લાંબા કાળ સુધી અવિરત જ રહે છે. (૨)
CI
અવતરણિકા - અલ્પસત્ત્વવાળો પોતાની પ્રતિજ્ઞાને તોડે છે, એમ બતાવ્યું. હવે તે જે રીતે પોતાની પ્રતિજ્ઞાને તોડે છે તે બતાવે છે -
શબ્દાર્થ - બીજાની સાક્ષીએ બધા સાવદ્ય યોગ (પાપ વ્યાપાર)ના પચ્ચક્ખાણ કરીને આત્માને ભૂલી જનાર ધૈર્ય વિનાનો જીવ કાયર બનીને ફરી તેમને सेवे छे. (3)
१. सकलयोगं