________________
श्रीयोगसारस्य मूलवृत्तानि, प्रथमः प्रस्तावः
परिशिष्टम् १
विश्वस्य वत्सलेनाऽपि, त्रैलोक्यप्रभुणाऽपि च । साक्षाद्विहरमाणेन, श्रीवीरेण तदा किल ॥२४॥ त एव रक्षिता दुःख-भैरवाद्भवसागरात् । इयं यैः स्वीकृता भक्ति-निर्भरैरभयादिभिः ॥ २५ ॥
यैस्तु पापभराक्रान्तैः, कालसौकरिकादिभिः ।
न स्वीकृता भवाम्भोधौ, ते भ्रमिष्यन्ति दुःखिताः ॥ २६ ॥ ॥ त्रिभिर्विशेषकम् ॥
सर्वजन्तुहिताशैवाऽऽज्ञैव मोक्षैकपद्धतिः । चरिताऽज्ञैव चारित्र - माज्ञैव भवभञ्जनी ॥२७॥
इयं तु ध्यानयोगेन, भावसारस्तुतिस्तवैः । पूजादिभिः सुचारित्र - चर्यया पालिता भवेत् ॥ २८ ॥ आराधितोऽस्त्वसौ भाव- स्तवेन व्रतचर्यया । तस्य पूजादिना द्रव्य- स्तवेन तु सरागता ॥ २९॥
चिन्तामण्यादिकल्पस्य, स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् - कल्याणाय तदर्थिनाम् ॥३०॥ स्वर्गापवर्गदो द्रव्य-स्तवोऽत्रापि सुखावहः । हेतुश्चित्तप्रसत्तेस्तत्- कर्त्तव्यो गृहिणा सदा ॥३१॥ भवेद्विरतिरप्यस्य, यथाशक्ति पुनर्यदि ।
ततः प्रक्षरितः सिंहः कर्मनिमर्थनं प्रति ॥३२॥
,
६१३
श्रावको बहुकर्माऽपि, पूजाद्यैः शुभभावतः । दलयित्वाऽखिलं कर्म, शिवमाप्नोति सत्वरम् ॥३३॥ येनाऽऽज्ञा यावदाराद्धा, स तावल्लभते सुखम् । यावद्विराधिता येन, तावद्दुःखं लभेत सः ॥३४॥ सदा तत्पालने लीनैः, परमात्माऽऽत्मनाऽऽत्मनि । सम्यक् स ज्ञायते ज्ञातो, मोक्षं च कुरुते प्रभुः ॥ ३५ ॥ बुद्धो वा यदि वा विष्णु-र्यद्वा ब्रह्माऽथवेश्वरः । उच्यतां स जिनेन्द्रो वा, नार्थभेदस्तथापि हि ॥३६॥