________________
परिशिष्टम्-१०
श्रीयोगसारस्य मूलवृत्तानि
[ प्रथमः प्रस्तावः। प्रणम्य परमात्मानं, रागद्वेषविवर्जितम् । योगसारं प्रवक्ष्यामि, गम्भीरार्थं समासतः ॥१॥ यदा ध्यायति यद्योगी, याति तन्मयतां तदा । ध्यातव्यो वीतरागस्तन्-नित्यमात्मविशुद्धये ॥२॥ शुद्धस्फटिकसङ्काशो, निष्कलश्चात्मनाऽऽत्मनि । परमात्मेति स ज्ञातः, प्रदत्ते परमं पदम् ॥३॥ किन्तु न ज्ञायते तावद्-यावन्मालिन्यमात्मनः । जाते साम्येन नैर्मल्ये, स स्फुटः प्रतिभासते ॥४॥ तत्त्वनन्तानुबन्ध्यादि-कषायविगमक्रमात् । आत्मनः शुद्धिकृत्साम्यं, शुद्धं शुद्धतरं भवेत् ॥५॥ साम्यशुद्धिक्रमेणैव, स विशुध्यत आत्मनः । सम्यक्त्वादिगुणेषु स्यात्, स्फुटः स्फुटतरः प्रभुः ॥६॥ सर्वमोहक्षयात्साम्ये, सर्वशुद्धे सयोगिनि । सर्वशुद्धात्मनस्त्वेष, प्रभुः सर्वस्फुटीभवेत् ॥७॥ कषाया अपसर्पन्ति, यावत्क्षान्त्यादिताडिताः । तावदात्मैव शुद्धोऽयं, भजते परमात्मताम् ॥८॥ उपसर्पन्ति ते यावत्-प्रबलीभूय देहिषु ।। स तावन्मलिनीभूतो, जहाति परमात्मताम् ॥९॥ कषायास्तन्निहन्तव्या-स्तथा तत्सहचारिणः । नोकषायाः शिवद्वारा-गर्गलीभूता मुमुक्षुभिः ॥१०॥