SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ योगसारः ५/४६ उत्सर्गापवादकुशलो मुनिर्भवपारगः स्यात् मूलम् - 'तिर्यगोघं यथा छिन्दन् - नद्याः स्यात् पारगः सुधीः । भवस्यापि तथोत्सर्गा-पवादकुशलो मुनिः ॥४६॥ अन्वयः - सुधीः ओघं तिर्यग् छिन्दन्नयं यथा नद्याः पारगः स्यात्तथोत्सर्गापवादकुशलो मुनिर्भवस्यापि (पारगः स्यात्) ॥४६॥ पद्मीया वृत्तिः - सुधीः - शोभना-धी:-मतिर्यस्येति सुधीः, ओघं - प्रवाहं, तिर्यग् - परतटदिशा, छिन्दन् - नदीप्रवाहमुल्लङ्घयन्, यथाशब्दो दृष्टान्तोपन्यासे, नद्याः - स्रवन्त्याः, पारगः - पारम्-तटं गच्छतीति पारगः, स्यात् - भवेत्, तथाशब्दो दार्टान्तिकोपन्यासे, उत्सर्गापवादकुशलः - उत्सर्गः-मूलमार्गश्चापवादः द्वितीयो मार्गश्चेत्युत्सर्गापवादौ, तयोः कुशलः-निष्णात इत्युत्सर्गापवादकुशलः, मुनिः - संयमाराधकः, भवस्य - संसारस्य, अपिशब्दो अन्यस्य पारगः स्यादेव भवस्यापि पारगः स्यादिति द्योतयति । 'पारगः स्यात्' इत्यत्राप्यनुकर्षणीयम् । जनाः प्रायो गतानुगतिकाः सन्ति । ततो गतानुगतिकप्रवाहानुसारेण ते नद्यावर्ते निमज्जन्ति । कश्चिद् बुद्धिशाली नरो लोकं नाऽनुसरति । ततः स आवर्ते न निमज्जति । स चिन्तयति – 'मया नदी तीर्णप्राया। तटं समीपवत्ति । ततो मया सोपयोगं तरितव्यम्। मयाऽऽवर्ते न पतितव्यम् । मया शीघ्रं तटं प्रापणीयम् ।' इत्थं विचिन्त्य स तिर्यगेव શબ્દાર્થ - બુદ્ધિશાળી માણસ નદીના પ્રવાહને તીર્થો ઓળંગીને જેમ નદીના કિનારાને પામે છે, તેમ ઉત્સર્ગ અને અપવાદમાં કુશળ એવો મુનિ પણ સંસારના ५।२ने पामे छे. (४६) પધીયાવૃત્તિનો ભાવાનુવાદ - લોકો પ્રાયઃ ગાડરિયા પ્રવાહમાં ચાલે છે. તેથી ગાડરિયા પ્રવાહને અનુસાર તેઓ નદીના વમળમાં ડૂબે છે. કોઈક બુદ્ધિશાળી માણસ सोने अनुसरतो नथी. तेथी ते मणमा पतो नथी. ते वियारे छ ? - 'ई લગભગ નદીને તરી ગયો છું. કિનારો નજીક છે, માટે મારે ધ્યાન રાખીને તરવું જોઈએ. મારે વમળમાં ન પડવું જોઈએ. મારે જલ્દીથી કિનારે પહોંચવું જોઈએ.' આમ વિચારીને તે તિર્થો જ તરે છે. તે કિનારા તરફ જ તરે છે. તે વમળમાં પડતાં १. तिर्यग्गोऽयं - G MI २. कामार्थविमुखः शूरः, सुधर्मैकरतिर्भवेत् - C, G JI
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy