________________
५७८
कन्धराबद्धपापाश्मा भवाब्धावधो गच्छति योगसारः ५/४२ अत्रायं सारः - प्रमादस्त्यक्तव्यो धर्मश्च कर्त्तव्यः । उक्तञ्च प्रमादपरिहारकुलके - ‘एवं वियाणिऊणं मुंच पमायं सयावि रे जीव !। पाविहिसि जेण सम्मं जिणपयसेवाफलं रम्मं ॥३३॥' (छाया - एवं विज्ञाय मुञ्च प्रमादं सदाऽपि रे जीव ! । प्राप्स्यसि येन सम्यक् जिनपदसेवाफलं रम्यम् ॥३३॥)' ॥४१॥
अवतरणिका - जीवो धर्मस्य दुर्लभतां न वेत्ति । अत एव स धर्मे प्रमाद्यति । ततस्तस्मै धर्मस्य दुर्लभतां दर्शयति - मूलम् - कन्धराबद्धपापाश्मा, भवाब्धौ यद्यधोगतः।
क्व धर्मरज्जुसम्प्राप्तिः, 'पुनरुच्छलनाय ते ? ॥४२॥ अन्वयः - यदि (त्वं) कन्धराबद्धपापाश्मा भवाब्धावधोगतः (तर्हि) ते पुनरुच्छलनाय धर्मरज्जुसम्प्राप्तिः क्व ? ॥४२॥
पद्मीया वृत्तिः - यदिशब्दः सम्भावने, त्वमित्यत्राध्याहार्यम्, कन्धराबद्धपापाश्मा - पापम्-दुरितमेवाऽश्मा उपल इति पापाश्मा, कन्धरायां-ग्रीवायां बद्धः-निगडितः पापाश्मा येनेति कन्धराबद्धपापाश्मा, भवाब्धौ - संसारसमुद्रे, अधोगतः - अधः-तलं गतः-प्राप्त इत्यधोगतः - निमग्नः, 'तर्हि' इत्यत्राध्याहार्यम्, ते - तव, पुनरुच्छलनाय - पुनर्बहिर्निर्गन्तुम्, धर्मरज्जुसम्प्राप्तिः - धर्म:-भवोदधितारक एव रज्जुः-वरत्रेति धर्मरज्जुः, तस्य सम्प्राप्ति:-लाभ इति धर्मरज्जुसम्प्राप्तिः, क्व - कुतः ? नैव कथञ्चिदित्यर्थः।
અહીં સાર આ પ્રમાણે છે – પ્રમાદ છોડવો અને ધર્મ કરવો. પ્રમાદપરિહારકુલકમાં કહ્યું છે, “હે જીવ ! આમ જાણીને હંમેશા પ્રમાદ છોડ, જેથી તેને ભગવાનના य२९॥नी सेवा- सुं८२ ३॥ सारी रात भणश. (33)' (४१)
અવતરણિકા - જીવ ધર્મની દુર્લભતા જાણતો નથી. તેથી જ તે ધર્મમાં પ્રમાદ કરે છે. તેથી તેને ધર્મની દુર્લભતા બતાવે છે –
શબ્દાર્થ - જો તું ગળામાં પાપનો પથ્થર બાંધીને ભવસમુદ્રના તળીયે ગયો તો તને ફરી બહાર નીકળવા ધર્મરૂપી દોરડું ક્યાંથી મળશે? અર્થાત્ નહીં મળે. (૪૨)
१. पुनरुद्धरणाय - DI