________________
योगसार: ५/३९
देहममत्वत्यागोपदेश:
मूलम् - 'सप्तधातुमये श्लेष्म - मूत्राद्यशुचिपूरिते । 'शरीरकेऽपि पापाय, कोऽयं शौचाग्रहस्तव ॥३९॥
५६१
अन्वयः - सप्तधातुमये श्लेष्ममूत्राद्यशुचिपूरिते शरीरकेऽपि पापायाऽयं तव शौचाग्रहः कः ? ॥३९॥
पद्मीया वृत्तिः - सप्तधातुमये - सप्तानां धातूनाम् - रस- रुधिर-मांस - मेदोऽस्थिमज्जा - शुक्ररूपाणां विकार इति सप्तधातुमयम्, तस्मिन् श्लेष्ममूत्राद्यशुचिपूरिते श्लेष्मा च मूत्रं-प्रश्रवणञ्चेति श्लेष्ममूत्रे, ते आदौ यस्य विष्टा - निष्ठ्यूत-मल- प्रस्वेदादेरिति श्लेष्ममूत्रादि, तच्च तदशुचि - अमेध्यञ्चेति श्लेष्ममूत्राद्यशुचि, तेन पूरितम् - भृतमिति श्लेष्ममूत्राद्यशुचिपूरितम्, तस्मिन्, शरीरके - शरीरमेव शरीरकम्, तस्मिन् देहे, अपशब्द - अन्यवस्तुनि शौचाग्रहः पापाय, शरीरेऽपि शौचाग्रहः पापायेति द्योतयति, पापाय पापनिमित्तम्, अयम् - प्रत्यक्षतो दृश्यमान:, तव त्वत्सम्बन्धी, शौचाग्रहः कः किमर्थम् ?
शौचस्य पवित्रताया- आग्रहः
निर्बन्ध इति शौचाग्रहः,
-
इदं शरीरं सप्तानां धातूनां विकाररूपम् । जीव आहारपर्याप्त्याऽऽहारं गृहीत्वा तं रसखल-रूपतया परिणमयति । ततः स रसात् शरीरपर्याप्त्या सप्तधातुरूपं शरीरं निर्मिमीते । एते सप्त धातवोऽशुचयः । यदि ते शरीराद् बहिरागच्छेयुस्तर्हि सर्वे तान् जुगुप्सेयुः ।
શબ્દાર્થ - સાત ધાતુથી બનેલા, કફ-પેશાબ વગે૨ે ગંદકીથી ભરેલા શરીરને વિષે પણ પાપ માટે થનારો આ તારો શૌચનો આગ્રહ શા માટે છે ? (અર્થાત્ ગંદા એવા શરીરને પવિત્ર કરવાનો આગ્રહ તારે ન કરવો જોઈએ.) (૩૯)
पद्मीयावृत्तिनो भावानुवाद- शरीर रस-सोही मांस-यरजी- हाडा-मभ्भवीर्य३५ सात धातुथी जनेयुं छे. ते 5ई, पेशा, विष्टा, थंड, भेल, पसीना वगेरे ગંદા પદાર્થોથી ભરેલું છે.
આ શરીર સાત ધાતુના વિકારરૂપ છે. જીવ આહારપર્યાપ્તિથી આહારને ગ્રહણ કરીને તેને રસ રૂપે અને ખલરૂપે પરિણમાવે છે. પછી તે રસમાંથી શ૨ી૨૫ર્યાપ્તિથી સાત ધાતુરૂપ શરીર બનાવે છે. આ સાતે ધાતુઓ અપવિત્ર છે. જો તે શરીરની
१. सप्तधातुमल श्लेष्ममूत्राद्यशुचिभाजने
D, KI २. शरीरे कोऽपि - F, G, JI