________________
योगसार: ५/३५
दृष्टान्तेन वनवाससुखसमर्थनम्
५४५
अयमत्र सारः-योगिसुखं चक्रवर्त्तिसुखमतिशेते । ततः शान्तेन सुखासीनेन निर्द्वन्द्वेन निष्परिग्रहेण च सता योगिसुखार्थं प्रयतनीयम् ||३४||
अवतरणिका - वनवासे सुखं यथा भवति तथा प्रतिपादितम् । अधुना दृष्टान्तेन वनवाससुखं समर्थयति
मूलम् - 'जन्मभूत्वात्पुलिन्दानां वनवासे यथा रतिः ।
तथा विदिततत्त्वानां, यदि स्यात् किमतः परम् ? ॥३५॥ यथा पुलिन्दानां जन्मभूत्वाद्वनवासे रतिस्तथा यदि विदिततत्त्वानां (वनवासे रतिः) स्यात् (तर्हि) अतः परं किम् (प्राप्तव्यम् ) ? ॥३५॥
अन्वयः
-
पद्मीया वृत्तिः - यथाशब्दो दृष्टान्तोपन्यासे, पुलिन्दानाम् - भिल्लानाम्, जन्मभूत्वात् जन्मनः-उत्पत्तेः भूः-भूमिरिति जन्मभूः, तस्या भाव इति जन्मभूत्वम्, तस्मात्, वनवासे - अरण्यावस्थाने, रतिः - सुखम्, तथाशब्दो दान्तिकोपन्यासे, यदिशब्दः सम्भावने, विदिततत्त्वानाम् - विदितं ज्ञातं तत्त्वं जगत्स्वरूपं यैस्ते विदिततत्त्वा:, तेषाम्, 'वनवासे रति:' इत्यत्राप्यनुकर्षणीयम् स्यात् - भवेत्, तर्हीत्यत्राध्याहार्यम्, तर्हि - एवं सति, अतः अस्मात्, परम् - अधिकम् किम् प्रश्ने, प्राप्तव्यमित्यत्राध्याहार्यम्, न किमपीत्यर्थः ।
भिल्लानां जन्म वने भवति । ते वने एव वर्धन्ते । तेषां जीवनमपि वने एवाऽतिवहति ।
અહીં સાર આ પ્રમાણે છે - યોગીનું સુખ ચક્રવર્તીના સુખ કરતાં ચઢિયાતું છે. તેથી શાંત, સુખમાં લીન, દ્વન્દ્વ રહિત અને પરિગ્રહ રહિત થઈને યોગીના સુખ માટે प्रयत्न ५२वो. (३४)
અવતરણિકા - વનવાસમાં સુખ જે રીતે હોય એ બતાવ્યું. હવે દૃષ્ટાંત વડે વનવાસના સુખનું સમર્થન કરે છે -
-
શબ્દાર્થ - જેમ ભિલ્લોને જન્મભૂમિ હોવાથી વનવાસમાં આનંદ આવે છે તેમ જો તત્ત્વને જાણનારા મુનિઓને વનવાસમાં આનંદ આવે તો એથી વધુ શું જોઈએ ? (૩૫) પદ્મીયાવૃત્તિનો ભાવાનુવાદ - ભિલ્લોનો જન્મ વનમાં થાય છે. તેઓ વનમાં જ
१. वनजत्वात्
-
D, जन्मभूता
-
KI