________________
योगसारः ४/३९
कलौ प्रायो धीरगम्भीरोदारवदाभासमाना अपि न सन्ति
अवतरणिका - सात्त्विका विरला इत्युक्तम् । तत्कारणं दर्शयति मूलम् बाहुल्येन तदाभास-मात्रा अपि कलौ कुतः । 'बुसप्रायैस्तु लोकोऽयं, पूरितो भवपूरकैः ॥३९॥
अन्वयः कलौ तदाभासमात्रा अपि बाहुल्येन कुतः ? अयं लोकस्तु बुसप्रायैः भवपूरकैः पूरितः ॥३९॥
पद्मीया वृत्तिः - कलौ – कलियुगे, दुःषमनामपञ्चमारकदुःषमदुःषमनामषष्ठारकरूपे इत्यर्थ:, तदाभासमात्राः - तेषाम् - पूर्वश्लोकोक्तधैर्यगाम्भीर्यौदार्यादिगुणशालिनामिवाभासन्ते-दृश्यन्ते इति तदाभासाः, तदाभासा एव तदाभासमात्राः, अपिशब्दो धैर्यादिगुणशालिनस्तु नैव सन्ति, परन्तु तदाभासमात्रा अपि न सन्तीति द्योतयति, बाहुल्येन प्रायः, कुतः कथम्-नैव सन्तीत्यर्थः, अयम् - प्रत्यक्षतो दृश्यमानः, लोकः विश्वम्, तुशब्दो धैर्यादिगुणशाल्यपेक्षया वैपरीत्यं द्योतयति, बुसप्रायैः - बुसस्य-धान्यतुषस्य तुल्या इति बुसप्राया:, तैः, भवपूरकैः भव:- जीवनं, तं पूरयन्ति - समापयन्तीति भवपूरकाः, तैः, पूरित:-भृतः ।
-
-
-
४१९
-
पूर्वश्लोके उक्ता धैर्यगाम्भीर्यौदार्यादिगुणशालिनः सुषमसुषमादिचतुररकेष्वेव सम्भवन्ति । अन्तिमद्वयारकयोस्ते न सम्भवन्ति । जैनेतरदर्शनेषु कालविभाग एवं कीर्त्तित:सद्युगो द्वापरयुगस्त्रेतायुगः कलियुगश्च । सद्युगे सर्वं प्रशस्तं भवति । तत उत्तरोत्तरयुगे सर्वं
અવતરણિકા - સાત્ત્વિક જીવો થોડા હોય છે, એમ કહ્યું. તેનું કારણ બતાવે છે - शब्दार्थ - ऽसिङासभां मात्र तेमनी (धैर्य-गंभीरता - उधारता वगेरे गुणोवाणानी) જેવા દેખાનારા પણ પ્રાયઃ ક્યાંથી હોય ? અર્થાત્ ન હોય. આ લોક ફોતરા જેવા ભવને પૂરો કરનારા લોકોથી ભરેલો છે. (૩૯)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - પૂર્વશ્લોકમાં કહેલા ધૈર્ય, ગંભીરતા, ઉદારતા વગેરે ગુણોથી શોભતાં જીવો સુષમસુષમ વગેરે ચાર આરાઓમાં જ હોય છે. છેલ્લા બે આરામાં તે હોતા નથી. જૈનેતરદર્શનોમાં કાળનો વિભાગ આ રીતે કહ્યો छे - सत्युग, द्वापरयुग, त्रेतायुग भने उलियुग. सत्युगमां जघुं सारं होय छे. १. तुसप्रायैस्तु - A, बुशप्रायैस्तु - D, KI