SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ३७६ व्रतं त्यजन् काकिणीमात्रेण कोटिं हारयति योगसारः ४/२२,२३ मूलम् - किन्तु सातैकलिप्सुः 'स, वस्त्राहारादिमूर्च्छया । कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम् ॥२२॥ कथयश्च निमित्ताद्यं, लाभालाभं शुभाशुभम् । कोटि काकिणीमात्रेण, हारयेत् स्वं व्रतं त्यजन् ॥२३॥ ॥ युग्मम् ॥ अन्वयः - किन्तु सातैकलिप्सुः वस्त्राहारादिमूर्च्छया मन्त्रतन्त्रादि गेहिनाञ्च गृहव्याप्ति कुर्वाणः निमित्ताद्यं लाभालाभं शुभाशुभञ्च कथयन् स्वं व्रतं त्यजन्स काकिणीमात्रेण कोटि हारयेत् ॥२२॥ ॥२३॥ ___ पद्मीया वृत्तिः - किन्तु - परन्तु-सैंहीवृत्त्यपेक्षया पक्षान्तरं द्योतयति, सातैकलिप्सुः - सातस्य-सुखस्यैव एकस्य-केवलस्य लिप्सुः-प्रेप्सुरिति सातैकलिप्सुः, वस्त्राहारादिमूर्च्छया - वस्त्राणि-वासांसि च आहारः-अन्नञ्चेति वस्त्राहाराः, ते आदौ येषां पात्रवसत्यादीनामिति वस्त्राहारादयः, तेषां मूर्छा-आसक्तिरिति वस्त्राहारादिमूर्छा, तया, मन्त्रतन्त्रादि - मन्त्रः-देवाधिष्ठिताऽक्षरन्यासविशेषश्च तन्त्रम्-देवाद्याकर्षणतर्जनकारिणी क्रिया चेति मन्त्रतन्त्रे, ते आदौ यस्य विद्या-योगादेरिति मन्त्रतन्त्रादि, तत्कर्मतापन्नम्, गेहिनाम् - गृहस्थानाम्, चशब्दः समुच्चये, गृहव्याप्तिम् - गृहस्य-अगारस्य व्याप्तिः-तप्तिरिति गृहव्याप्तिः गृहचिन्तेत्यर्थः, ताम्, कुर्वाणः - प्रयुञ्जन् चिन्तयश्च, निमित्ताद्यम् - निमित्तम्अष्टाङ्गमाद्यम्-प्रथमं यस्येति निमित्ताद्यम्, तत्कर्मतापन्नम्, लाभालाभम् - लाभ:प्राप्तिश्च अलाभ:-हानिश्चेत्येतयोः समाहार इति लाभालाभम्, शुभाशुभम् - शुभम्शोभनञ्च अशुभम्-अशोभनञ्चेत्येतयोः समाहार इति शुभाशुभम्, तत्कर्मतापन्नम्, चशब्दः समुच्चये, कथयन् - वदन्, स्वम्-निजम्, व्रतम् - चारित्रम्, त्यजन् - अतिचरन्, શબ્દાર્થ - પણ એકમાત્ર સાતાને મેળવવા ઇચ્છતો, વસ્ત્ર-આહાર વગેરેની આસક્તિથી મંત્ર-તંત્ર વગેરે અને ગૃહસ્થોના ઘરની ચિંતા કરતો, નિમિત્ત વગેરેને - લાભાલાભને અને શુભાશુભને કહેતો, પોતાના ચારિત્રને છોડતો તે સાધુ એક st3भाटे रोउने रे छे. (२२-२३) ___१. सन् - A, B, C, D, E, F, G, LI २. निमित्ताद्यैर्लाभालाभं - KI ३. कागिणिमात्रेण - C। ४. त्यजेत् - JI
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy