________________
अथ नवमीचैत्यवन्दनम् ॥९॥ श्रेयःश्रियां धाम मधोर्वलक्षे मोक्षं प्रपन्नः सुमतिर्जिनेन्द्रः । यस्यां स वैशाखसिते च दीक्षांसा नस्तिथिः स्तानवमी सुखाय ॥१॥ ज्येष्ठेऽसिते मोक्षमतीतदोषः शिवाय यस्यां मुनिसुव्रतोऽर्हन् । श्रीवासुपूज्यश्च्यवनं च शुभ्रे सा नस्तिथिः स्तानवमी सुखाय ॥२॥ आषाढकृष्णे नमिनाथदीक्षा नभोऽसिते कुन्थुनिनच्युतिश्च । नभस्यशुक्ले सुविधिः शिवेऽगात् सा नस्तिथिः स्तान्नवमी सुखाय ॥३॥ पौषार्जुने ज्ञानमवाप शान्तिर्दिक्षां जिनो माघसितेऽजितश्च । तपस्यकृष्णे सुविधिश्च्युतोऽर्हन् सा नस्तिथिः स्तान्नवमी सुखाय ॥४॥
इत्यं सद्गुणभाननं जिनवरा यस्यां स्वजन्मच्युति___ दीक्षाज्ञानशिवश्रियं त्रिभुवनानन्दप्रदां लेभिरे । नृणां यत्तपसा नवाऽपि निधयः पादे लुठन्त्यञ्जसा
श्रेयःश्रीततिमातनोतु नवमी सा नस्तिथिः सर्वदा ॥५॥
अथ दशमीचैत्यवन्दनम् ॥ १० ॥ श्रीवीरदीक्षा मृगशीर्षकृष्णे मार्गाऽर्जुनेऽरस्य जनिः शिवं च । पौषाऽसिते पार्वजनिश्च यस्यां सा श्रेयसे स्तादशमी तिथिनः ॥१॥