________________
(80)
शोभितदक्षिणपाणिचतुष्टयो नकुलपरशुवज्राऽक्षसूत्रसमेतवाम करचतुष्कश्च २१, श्री अरिष्टनेमिनो गोमेधो यक्षस्त्रिमुखः षण्नयणः श्यामाङ्गरुचिः पुरुषवाहनः षड्मुजः मातुलिङ्गपरश्वधचक्राङ्कितदक्षिणपाणित्रयो नकुलशूलशक्तियुक्तवामकरत्रयश्च २२, पार्श्वप्रभोर्वामनो मतान्तरेण पार्श्वाख्यो यक्षः कुञ्जरास्यः कुर्मासनोऽसितद्युतिमूर्ध्नि फणिफणच्छत्रश्चतुर्हस्तो मातुलिङ्गगदायुक्तदक्षिणपाणिद्वयो नकुलनागाधिष्ठितवामकरद्वयश्च २३, श्रीवर्द्धमानस्वामिनो मातङ्गो यक्षः करिवरारूढोऽसितकान्तिर्द्विभुजो नकुलकलितदक्षिणपाणिर्मातुलिङ्गसङ्गतवामहस्तश्चेति ॥ २४ ॥ गाथाद्वयाथः ॥ ५७ ॥ ५८ ॥ इदानीं ' देवीओ ' ति विंशं स्थानं विवरीतुमाहदेवीओ चक्केसरी ?
अजिया २ दुरिआरि ३ कालि ४ महकाली १ । सामा ६ संता ७ जाला ८
सुतारया ९ सोअ १० सिरिवच्छा ११ ॥५९ ॥ पवरी १२ विजयं १३ क्रूसा १४
पण्णत्ती १५ निवाणि १६ अच्चुआ १७ धरणी १८ | रु १९ छुत्त २० गंधारी २१
अंब २२ पउमावई २३ सिद्ध २४ ॥ ६० ॥