________________
(२५) इदानीं 'तव' त्ति त्रयोदशं स्थानं व्याख्यातुकाम आहवसुपुज्जो चउत्थेणं अष्ठमभत्तेण मल्लिपासा य। सेसजिणा छद्रेणं सुमइजिणो निच्चभत्वेणं ॥ ३७ ॥
व्याख्या-वासुपूज्यश्चतुर्थेनैकोपवासेन, मल्लिः पाश्चाऽष्टममक्तेन विभिरुपवासैः, सुमतिजिनो नित्यभक्तेन-अनवरतभक्तेन -तपसा प्रव्रजितः, शेषाः पुन ऋषभस्वामिप्रभृतयों विंशतिः तीथकरा. षष्ठेन द्वाभ्यामुपवासाभ्यामिति गाथार्थः ॥ ३७॥
इदानीं 'भिक्ख' त्ति चतुर्दशं स्थानं प्रचिकटयिषुराहसंवच्छरेण उसभस्स पारणं सेसयाण बीयदिणे । परमनं तेवीसं इक्खुरसो पढमपारणए ॥३८॥
व्याख्य--ऋषभस्य प्रथमतीर्थकृतः संवत्सरेण-वर्षेण, शेषावामनितादीनां लेनानां प्रव्रज्याग्रहणदिनाद् द्वितीये दिवसे पारणकमभूत् । तत्रापि अजितप्रभृतित्रयोविंशतितीर्थकृतां प्रथमपारणके परमानं पायसलक्ष्णमासीत् ऋषभजिनेशितुः प्रथमपारणके इक्षरसः समायासीदिति गावार्थः ॥ ३८ ॥ । साम्प्रतं यैस्तीकृतां पारणकानि कारितानि तेषां नामान्याह-.