________________
अथैष श्राद्धचन्द्रिकाख्यः प्रबन्धः पण्डितवरश्रीदिवाकरभट्टनिर्मितः सम्मुद्रय प्रकाशयितुमुपक्रम्यते । अत्र च प्रतिपाद्यविषयावगतिम्रन्थनाम्नव व्यक्तीभवति। सक्षेपेण श्राद्धप्रशंसा श्राद्धलक्षण-श्राद्धकाल-श्राद्धाधिकारिश्राद्धापयोगिद्रव्य-श्राद्धप्रयोगादिकं सम्यक्तया विवृतमस्ति । बक्शाखानुसारिण्येव पद्धतिम्रन्थकृतान्तरङ्गीकृता। पावणे कोदिष्टसपिण्डीकरणादिश्राद्वानि सुविवेचितानि अन्ते शय्यादानविधिस्तत्सामग्री तत्प्रयोगश्च सम्यक्तया विनिवेशिताऽस्ति । लेखसरणिः सरला सुव्यक्ता च । स्वल्पोऽप्ययं प्रबन्धः श्राद्धविषये सूपयोग्यपेक्षितविषयजातस्याविकलरूपेणोपदर्शकतयावश्यमुपादेयः श्राद्धतत्त्वविविदिषूणां श्राद्धमर्मज्ञानां च विदुषामित्यत्र नास्ति सन्देहलेशावसरः । ___ अनेन च विदुषा महान् शास्त्रसुधानिधिर्नाम निबन्धो विरचितः । तस्य च सूर्यादिपञ्चायतनप्रतिष्ठापद्धतिः, तिथ्यर्कः, आचारार्कः, श्राद्धचन्द्रिका, दानहीरावलीप्रकाशः, प्रायश्चित्तमुक्तावली, अन्त्येष्टिप्रकाश इति सप्त भागाः सन्ति । तेष्वेवान्यतमोऽयं भागः श्राद्धचन्द्रिका (श्राद्धचन्द्रिका. प्रकाशः) इति ।
स्वकीयैतिचं तु सङ्केपेण ग्रन्थका ग्रन्थान्ते स्वयमेवोपनिबद्धम् । यथा
भारद्वाजकुलोदधौ समभवच्छोबालकृष्णाभिधः सामा लान्छनवर्जितः प्रतिदिनं सन्तोषकृद्विद्वताम् । तत्सूनुः प्रथमो महामणिरिव श्रीमान् महादेव इ. त्यासीच्छेवपुरे विमुक्तिफलदे गङ्गातरङ्गाकुले ।। तत्पुत्रेण दिवाकरेण विदुषा निष्पादितां चन्द्रिका त्यक्त्वाहकृतिमुन्नतां स्वमनसः सम्पश्यताहो बुधाः । यद्यस्ति स्वयमेतदीयकृतितो वाच्यः कथं निर्णय
स्तहउँवं निपुणं विभाव्य हृदये दूष्यं वचो मामकम् ।। तिथ्य च
भारद्वाजकुलेऽमले समभवच्छीबालकृष्णाभिधः साहित्यामृतवारिराशिरतुलः सर्वद्विजानां गुरुः । तत्सूनुः प्रथमो महामणिरिव प्रख्यातकीर्तिर्गुणैः र्जातो न्यायनये बृहस्पतिसमो नाम्ना महादेवकः।। तत्पुत्रेण दिवाकरण विदुषा श्रीनीलकण्ठप्रभोदौहित्रेण घुधैः सुधारससमास्वाद्यः परेषां कृते । तिथ्यकः क्रियते प्रणम्य पितरं बोलां तथा मातरं श्रीकान्तं तपनं श्रियं पशुपतिं वाचं महादेवताम् ।। इति ।