________________
अनुक्रमणिका ।
भ्रातृणामविभक्तानां विभक्तानां च निर्णयः । अथ जीवत्पितुः श्राद्धे काधिकार इतीरितम् ।। ५१ ।। पतिते पितरि श्राद्धप्रकारोऽन्यास्त्विह । तीर्थश्राद्धं ततः प्रोक्तं विस्तरेण ततः स्मृतः ॥५२॥ सम्न्यासि भेदस्तच्छ्राद्धप्रयोगो विस्तरेण तु । दरिद्रश्राद्धसिद्धीनां प्रकाशे विनिवेदितः ॥ ५३ ॥ श्राद्धप्रयोगः कथितो बहुचानां ततः परम् । व्यतिषिक्त प्रयोगस्तु ग्राह्यदर्शिकस्य हि ॥ ५४ ॥ शूद्राणां श्राद्धमङ्कल्पः शय्यादानविधिस्ततः । सप्रयोगः प्रकथितः इति सर्वनिदर्शनम् ।। ५५ ।। इत्थं दिवाकरसुतेन कनीयसा श्री.
रामानुजेन गुरुभक्तिपरायणेन । श्रीतातपादरचिते सुजनप्रियेऽस्मिन्ग्रन्थे
क्रमा विलिखितः सवितुः प्रसादात् ।। ५६ ।।
॥ इति श्री दिवाकरात्मजवैद्यनाथविरचिता श्राद्धचन्द्रिकानुक्रमणिका समाप्ता ॥