________________
सुखशय्यादानप्रयोगः। १६७ अथ प्रसङ्गात्मुखशय्यादानप्रयोगो लिख्यते ।। तण्डुलादिचूर्णानिर्मिताष्टदले प्रस्थसम्मितान् तिलाक्षिप्त्वा तत्र शय्यां सोपस्करां स्वास्तीर्य मुमुखश्चेत्यादिगणपतिस्मर. गपूर्वकं सङ्कल्पवाक्यमुक्त्वा सर्वपापक्षयपूर्वकाप्सरोगणसेवायुत. विमानारोहणपूर्वकेन्द्रपुरगमनोत्तरषष्टिवर्षतदधिकरण कक्रीडनस्त्रीस. हस्रसम्बरणसहितस्वर्लोकमहितत्वतदुत्तरषष्टियोजनमण्डलराज्या. नन्तरपरब्रह्मैक्यकामोऽमुकगोत्रोऽमुकशर्मा शय्यादानं करिष्ये इति सङ्कल्प गणेशं सम्पूज्य सपत्नीकं विषं वस्त्रादिचन्दनाभू. षणान्वेनोपचारेण सम्पूज्य ततः शय्यां तदुपरि मुवर्णप्रतिमायां लक्ष्मीनारायणं च सम्पूज्य तां प्रदक्षिणीकृत्य नमः प्रमाण्यै देव्यै इति चतुर्दिक्षु प्रणम्य तिथ्याशुल्लेखनान्ते सर्वपापक्षये. त्यादिकामान्तं पूर्वोक्तं सङ्कल्पवाक्यमुक्त्वामुकगोत्रायामुकशर्मणे ब्राह्मणाय सपत्नीकायेमां शय्यामीशानादीतिपूर्ववत् । मन्त्र:यथा न कृष्ण ! शयनं शून्यं सागरजातया। शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ॥
यस्मादशून्यं शयनं केशवस्य शिवस्य च । शय्या ममाप्य हिरण्यं दक्षिणां दत्त्वा ब्राह्मणभोजनं भूयसी च सङ्कल्पयदिति दिक्।
भारद्वाजकुलोदधौ समभवच्छीबालकृष्णाभिषः सोमो लाञ्छनवर्जितः प्रतिदिन सन्तोषकृद्विद्वताम् ॥ तत्सूनुः प्रथमो महामाणिरिव (१)श्रीमान्महादेव इ. त्यासीच्छेवपुरे विमुक्तिफलदे गातरजाकुले ॥ १॥
तत्पुत्रेण दिवाकरेण विदुषा निष्पादितां चन्द्रिका (१) प्रख्यातकीर्तिर्गुणैरासीच्छास्त्रवने मृगेन्द्ररचनो नाम्ना महादेवकः । इति द्वि० पु० पादः ।