________________
"मलमासे श्राद्धं कार्य नवेति विचारो विस्तरेण वक्ष्यते श्राद्धचन्द्रिकाप्रकाशे" (ति० पृ०२५२ ) "विवेचयिष्यते चैस्पष्टं श्राद्धचन्द्रिकाप्रकाशे" (ति० पृ० २६० ) इति लेखदर्शनेन 'वक्ष्यते' 'विवेचयिष्यते' इति भविध्यत्कालनिर्देशात् तिथ्यानन्तरमेव श्राद्धचन्द्रिका विरचितेति व्यक्तमेवावधारयितुं शक्यते । अस्ति चान्या कृतिरस्य गन्थकृतो वृत्तरत्नाकरटीका वृत्तरत्नाकरादर्श इति । तत्राप्यवसाने खाभिजनोल्लेखपूर्वकं गन्थकृता--
पूर्णाब्धिसप्तकमिते पवर्षे सत्कार्तिके मासि विशुद्धपक्षे।.
तार्तीयपूर्णे दिवसे सुपुण्ये यादर्श इत्थं घटितः समाप्तः ।। इति लिखनात् एकस्मिन्नेवान्दे १७४० वैक्रमे तिथ्यकों वृत्तरत्नाकरादर्शश्चेति द्वयं समापितमिति पतीयते । अतश्च काणेमहाशयेन किंवा पमाणमास्थाय श्राद्धचन्द्रिकाविरचनकाल उपरिनिर्दिष्टः १६८० वी० लिखित इत्यवगन्तुं न पार्यते ।
एवं च तिथ्यांदनन्तरसमय एव १७४१।१७४२ वा वैक्रमाब्दे श्राद्धचन्द्रिकाया विरचनमिति निश्चपचम् ।।
अत्र च ग्रन्थकृता तत्र तत्र विवादास्पदेषु स्थलेषु माताह-मातुः प. पितामह--मातुः वृ० पपितामहादिपदैः श्रीनीलकण्ठ-श्रीरामकृष्णभट्ट-- श्रीनारायणभट्टादीनामेवोक्तिः प्रमाणत्वेनावलम्बिता।
तदेवं पत्नानां दुर्लभपायाणामीदृशानां निबन्धरत्नानां पकाशने बद्धपरिकरेण श्रीजयकृष्णदासगुप्तमहाशयेनास्याः श्राद्धचन्द्रिकायाः संशोधने सपश्रयमभिहितोऽहं पावतिष्येतच्छोधनकर्मणि । आदर्शपुस्तकं चास्या नेपा. लाभिजनकाशीनिवासिन आर्यालोपनामकपण्डितश्रीगजराजकेशरिणः सकाशात् स्वर्गीयगुरुचारणैः म०म० पर्वतीयनित्यानन्दशास्त्रिभिः सङ्ग्रहोतमेकमेव नातिशुद्ध प्राचीनतरं सम्पूर्णमुपलब्धम् । कतिपय मुद्रणानन्तरं च काशिकधर्माधिकारिपण्डितश्रीलक्ष्मीधरपन्त...... 'सकाशादपर नातिशुद्धं सम्पूर्णम् । विशदविषयानुक्रमणिकया अत्र पमाणत्वेनोद्धृतानांगन्थानां सूच्यादिनिवेशनेन च सपरिश्रमं सम्यक् परिशोधितेऽप्यत्र गन्थे मानुष्यकनान्तरीयकमतिदोषेण शीशकाक्षरयोजकानवधानतया च समुद्भूतानि स्खलि. तानि मर्षयित्वा पकटयिष्यन्ति निजां गुणैकपक्षपातितांप्रेक्षावतां धुरीणाः । पसीदतां चानेन व्यापारेण जनहृदयतत्त्वसाक्षी भगवान् काशिकापुराधीशः श्रीविश्वेश इत्याशास्ते१९९१ वैक्रमेऽब्दे शुद्धवैशाख
विदुषां विधेयः कृष्णपक्षे बुधे पञ्चम्याम् ।। श्रीविष्णुप्रसाद भण्डारी ।