________________
XXXXXXXXXXXXX
આ ધર્મપરીક્ષા ક
एवं प्रकृतेऽपि यदि अनाभिग्रहिकपदेन एकमेवानाभिग्रहिकमिथ्यात्वं गृह्यते, तर्हि आभिनिवेशिकादीनि त्रीणि प्रकृतभेदद्वयेऽन्तर्गतानि न भवन्तीति ग्रन्थकृतो दोषो भवेत् । न च सूत्रकाराणां गणधरादीनां दोषो वक्तुमुचितः । ततश्च अनाभिग्रहिकपदेन " आभिग्रहिकभिन्नं मिथ्यात्वम्" इत्यर्थ एव ग्राह्यः । अनाभोगाभिनिवेशिकादीनि चत्वार्यपि आभिग्रहिकभिन्नमिथ्यात्वपदेन व्यवहीयन्त एवेति प्रकृतेऽनाभिग्रहिकपदेन आभिग्रहिकभिन्नमिथ्यात्वप्रतिपादकेन चतुर्णां मिथ्यात्वानां संग्रहाद् भेदद्वये सर्वाणि मिथ्यात्वानि अन्तर्गतानि भवन्तीति न ग्रन्थकृतो दोषः ।
इत्थञ्च तृतीयसूत्रस्यायमर्थो भवति - आभिग्रहिकभिन्नं मिथ्यात्वं द्विविधम्- सपर्यवसितं अपर्यवसितं च..... तत्र अपर्यवसितं अभव्यस्य, सम्यक्त्वाप्राप्तेः इति ।
अत्र पूर्वपक्षस्येयमाशङ्का सम्भवति यदुत एवमपि अभव्यस्य आभिग्रहिकभिन्नानि सर्वाणि मिथ्यात्वानि अपर्यवसितानि सिद्ध्यत्येव । ततश्चाभव्यस्य मिथ्यात्वपञ्चकमपि मन्तव्यं स्यादिति महत्कष्टमिदम् - इति । किन्तु सा आशङ्का नात्र युक्ता । तथाहि द्विविधाः संसारिणो जीवा:- त्रसाः स्थावराश्च तत्र त्रसा उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमायुष्काः इति निरूपणं क्रियते । तत्र किं सर्वेषां त्रसाणां त्रयस्त्रिंशत्सागरोपमायुष्कं भवति ? उत येषां तत् सम्भवति, तेषामेव ? इति वक्तव्यम् । नहि अत्र सर्वेषां त्रसाणां, किन्तु यथासम्भवं केषाञ्चिदेव सप्तमनरकसर्वार्थसिद्धविमानवासिनामेव त्रसाणामिति सुप्रसिद्धमेव ।
-
-
एवं “आभिग्रहिकभिन्नं मिथ्यात्वं अभव्यस्यापर्यवसितम्" इत्यत्र न आभिग्रहिकभिन्नानां सर्वेषां मिथ्यात्वानां अभव्यजीवेऽपर्यवसितत्वं सिद्ध्यति । किन्तु यस्य आभिग्रहिकभिन्नमिथ्यात्वस्य तत्सम्भवति, तस्यैव तदवसेयम् । अभव्यस्य च आभिग्रहिकभिन्नं केवलमनाभोगमेव पूर्वप्रतिपादितपाठद्वयात् सिद्धम् । ततश्च तत्र आभिग्रहिकभिन्नं अनाभोगमाश्रित्यैव अभव्य आभिग्रहिकभिन्नमिथ्यात्वस्यापर्यवसितत्वमवसेयमिति न अभव्य आभिग्रहिकानाभोगाभ्यां भिन्नस्य मिथ्यात्वस्य सिद्धिरिति नास्माकं प्रतिज्ञायाः क्षतिरिति स्पष्टोऽयं जिनप्रवचनपन्थाः ।
शुन्द्र : उत्तरपक्ष : (स्थानांगना भए। सूत्रो द्रुमशः खा प्रमाणे छे. (१) मिथ्यादर्शन બે પ્રકારે છે - આભિગ્રહિક અને અનાભિગ્રહિક. (૨) આભિગ્રહિક બે પ્રકારે છે - સપર્યવસિત અને અપર્યવસિત. (૩) એ જ પ્રમાણે અનાભિગ્રહિક પણ જાણવું.)
અહીં પ્રથમસૂત્રમાં તમામ ભેદોનો સંગ્રહ કરવા માટે અનાભિગ્રહિકપદથી મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત - ૫૪