________________
જે ધમપરીક્ષા
અવ્યવહારરાશિમાંથી નીકળેલાને જ ઘટે છે. એટલે અભવ્યો અવ્યવહા૨ાશિમાંથી નિકળેલા સાબિત થઈ જાય છે. અને અવ્યવહારરાશિમાંથી નિકળેલાઓ વ્યવહારી કહેવાય જ. એટલે અભવ્યો વ્યવહારી છે જ.)
यशो० : तथा च तद्ग्रन्थः - (२३३)
जं दव्वलिंगकिरियाणंतातीया भवंमि सगला वि । सव्वेसिं पाएणं ण य तत्थ वि जायमेअं ति ।। एतद्वृत्तिः - 'जमित्यादि । यद् = यस्माद् द्रव्यलिङ्गक्रिया = पूजाद्यभिलाषेणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किम् ? इत्याह- अनन्ताः - अनन्तनामकसंख्याविशेषानुगताः, अतीताः = व्यतिक्रान्ताः, भवे = संसारे, सकला अपि = तथाविधसामग्रीवशात्परिपूर्णा अपि, सर्वेषां भवभाजां प्रायेण अव्यावहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किम् ? इत्याह-न च नैव तत्रापि = तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतद्=धर्मबीजमित्यादि ।'
चन्द्र० : उपदेशपदपाठमेवाह - तथा चेत्यादि । उपदेशपदगाथासंक्षेपार्थस्त्वयम् - यत् = यस्मात्कारणात् सकलाऽपि द्रव्यलिङ्गक्रिया सर्वेषां = जीवानां प्रायेण भवेऽतीता, न च तत्रापि द्रव्यलिंगक्रियास्वपि जातमेतदिति ।
=
" पूजाद्यभिलाषेण " इति पदं मिथ्यात्वादिमोहमलस्याव्यावृत्तेः साधको हेतुरस्ति । तथा च पूजाद्यभिलाषरूपेण हेतुना अव्यावृत्तो मिथ्यात्वादिमोहमलो यासु ताः, तासां भावः, तत्ता, तया । अनुमानञ्चेत्थम् – द्रव्यलिंगक्रियाः अव्यावृत्तमिथ्यात्वादिमोहमलाः पूजाद्यभिलाषाद् इति । शुद्धश्रमणेत्यादि, शुद्धो यः श्रमणभावः, तस्य योग्याः उचिता:, तथाविधसामग्रीवशात् = वज्रर्षभनाराचसंहननादिवशात् परिपूर्णा अपि
एवेत्यपिशब्दार्थः ।
=
I
अव्यावहारिकराशिगतान् अव्यवहारिण इत्यर्थः । अल्पकालतन्निर्गतांश्च समयावलिकादिनवर्षादिरूपेण अल्पकालेनैव तस्मात् = अव्यवहारराशितो निर्गतांश्चेति । तेषां हि अनन्ता द्रव्यलिंगक्रिया न सम्भवन्ति, अल्पकालेनैव व्यवहारराशौ समागमनात् । अत्र "अव्यावहारिकराशिगता अनन्ता द्रव्यक्रिया न प्राप्नुवन्ति" इत्युक्तम् । ततश्चार्थादापन्नं, येऽनन्ता द्रव्यक्रिया प्राप्तास्ते अव्यवहारराशिविनिर्गता एव । अभव्याश्च द्रव्यक्रियावन्तो भवतामपि सम्मता इति तेषां व्यावहारिकत्वं सिद्धम् ।
મહામહોપાધ્યાચ ચશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૭ ૧૧૪
=
-
=
न केवलं न्यूना