________________
2000000000000000000000
0 0000000000000000000000 धर्मपरीक्षा
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
में से प्रतिपादिता, ततश्च राशिद्वयकल्पनानुसारेण व्यवहारराशिवनस्पतीनामेव सा स्थितिः अवशिष्टा - * भवति, न तु व्यवहारराशिमात्रस्य ।
एवं च न पूर्वपक्षापत्तियुक्तिसहा । तथाहि – यदि अभव्या व्यवहारिणो भवेयुः, तहि । * असंख्येयपुद्गलपरावर्तकालान्तरं तेषां मुक्तिगमनं अव्यवहारित्वं वा स्यात् - इति हि * पूर्वपक्षवचनम् । तच्च न घटते । यतोऽसंख्येयपुद्गलपरावर्तप्रमाणा स्थितिर्व्यवहार
राशिवनस्पतीनामस्ति, न तु व्यवहारराशिमात्रस्य । ततश्च व्यवहारराशौ आगत्य पुनर्निगोदे गता में * अभव्या असंख्येयपुद्गलपरावर्तकालान्तरं व्यवहारराशिवनस्पतीन् परित्यज्य पृथिव्यादिषु
समागच्छन्ति, न च तत्र व्यवहारराशित्वं परित्यजन्ति । तत्र ते व्यवहारिण एव । एवं र * पृथिव्यादिषु भ्रान्त्वा यदा पुनर्निगोदं समागच्छन्ति, तदा भूयो व्यवहारराशिवनस्पतिषु
असंख्येयपुद्गलपरावर्तकालं स्थित्वा पुनर्व्यवहारराशिवनस्पतीन् परित्यज्य पृथिव्यादिषु में * समागच्छन्तीत्येवं क्रमेण सर्वदैव व्यवहारिणः संसारवर्तिनश्च सम्भवन्ति । न तु तेषां है * मोक्षगमनापत्तिः अव्यवहारित्वापत्तिर्वा । में संक्षेपतस्त्वेतावदेव चिन्तनीयं यदुत प्रज्ञापनावृत्तिबलाद् "व्यवहारराशेः सा स्थितिः * मलयगिरिपूज्यानामभिप्रेता" इति न पूर्वपक्षाभिप्रायो युक्तः, किन्तु व्यवहारराशिवनस्पतीनामेव 8 सा स्थितिस्तेषामभिप्रेता इत्येव पूर्वापरपदार्थविमर्शाज्ज्ञायते । ___ तथापि पूर्वपक्षेण कथमापत्तिप्रदानं कृतम् ? कथं च महोपाध्यायैः अस्मत् प्रदर्शितरीत्या
तत्समाधानं न कृतम् ? इति तु वयमपि संशयामहे । एतत्तु सम्भावयामो यदुत प्राक्प्रतिपादिते में * कायस्थितिस्तोत्रपाठे व्यवहारिणां असंज्ञितिर्यग्वनस्पत्यादिषु असंख्यपुद्गलपरावर्त्तकालो निगदितः। अ ततश्च स कालो न व्यवहारिवनस्पतेः, किन्तु व्यवहारिसामान्यस्यैवेति कायस्थितिस्तोत्राभिप्रायः प्रतीयते । एवं चात्र "व्यवहारिवनस्पतेरयं कालः" इति समाधानदानेऽपि कायस्थितिस्तोत्राभिप्रायसमाधानं तु अवश्यं दातव्यमेवेति उपाध्यायैः अग्रे तत्समाधानं दास्यत इति । ___ युक्तं चैतद् । पूर्वपक्षेण प्राक्कायस्थितिस्तोत्रपाठानुसारेण व्यवहारिणामसंख्यपुद्गलपरावर्त्तप्रमाणा स्थितिः साधिता, तदनन्तरं च "तदनुसारेण वनस्पतीनामसंख्यपुद्गलपरावर्त्तप्रमाणा में स्थितिरपि व्यावहारिकानपेक्ष्यैव" इति पूर्वपक्षेणैव निगदितम् । इत्थं च प्रज्ञापनापाठाद् । * व्यवहारवनस्पतीनामेवासंख्यपुद्गलपरावर्त्तप्रमाणा स्थितिः पूर्वपक्षस्यापीष्टैव । न पूर्वपक्षः * प्रज्ञापनापाठाद् व्यवहारिमात्रस्य तां स्थितिं मन्यते, किन्तु कायस्थितिस्तोत्रपाठमवलम्ब्यैव तेन * * व्यवहारिमात्रस्य सा स्थितिर्निगद्यते, प्रज्ञापनापाठस्तु स्वाभिप्रायपोषणार्थमेव । ततश्च महोपाध्यायैः ।
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત છ ૯૪