________________
ધર્મપરીક્ષા વનસ્પતિ આટલા જ પ્રમાણજીવોવાળી હોવાથી એ પ્રતિનિયત = ચોક્કસ પ્રમાણવાળી બની. અને માટે તેનું નિર્લેપન = ખાલી થવું સિદ્ધ થાય છે. કેમકે પ્રતિનિયત પ્રમાણવાળી छे.
(પ્રતિનિયતપરિમાણતયા એ શબ્દ નિર્લેપન થવાનું કારણ દર્શાવવા માટે છે જ એટલે ફરી પ્રતિનિયતપ્રમાણત્વાત્ પદ લખવાની જરૂર નથી. છતાં સ્પષ્ટતા માટે એ શબ્દ લખ્યો છે એમ જાણવું.)
यशो० : एवं च गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता । तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात् । आह च (विशेषणवति - ५० / ४९) -
कायठिइकालेणं तेसिमसंखिज्जयावहारेणं । णिल्लेवणमावण्णं सिद्धी वि य सव्वभव्वाणं ।। पइसमयमसंखिज्जा जेणुव्वट्टंति तो तदब्भत्या । कायठिईए समया वणस्सइणं च परिमाणं ।।
चन्द्र० : एवं च = वनस्पतीनां प्रतिनियतपरिमाणत्वे च गच्छता कालेन सिद्धिरपि = न केवलं वनस्पतीनां निर्लेपनमिति अपिशब्दार्थः । सर्वेषां भव्यानां = भव्या हि अपरिमितप्रमाणाः सन्ति, ततो जघन्यतोऽपि प्रतिषड्मासं एकजीवस्य मोक्षगमनेऽपि नानन्तेनापि कालेन सर्वेषां भव्यानां सिद्धिः । किन्तु यदि वनस्पतय एव प्रतिनियतप्रमाणाः, तर्हि तदन्तर्गता भव्यास्तु सुतरां तथा, ततश्च प्रतिनियतप्रमाणत्वात्क्रमशो मोक्षं गन्तारो भव्याः सर्वेऽपि मोक्षं प्राप्यस्यन्तीति । तत्प्रसक्तौ च सर्वेषां भव्यानां सिद्धिप्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि = न केवलं सर्वभव्यमोक्षप्रसङ्ग इत्यपिशब्दार्थः, प्रसक्तः । तत्र कारणमाह - सर्वभव्येत्यादि । अन्यस्य = अभव्यस्याजीवादेश्च सिद्धिगमनायोगात् ।
=
अत्रार्थे शास्त्रपाठमाह
1
आह चेत्यादि । विशेषणवतिगाथासंक्षेपार्थस्त्वयम् – (१) तेषां वनस्पतीनां असंख्येयतापहारेण = प्रतिसमयमसंख्यजीवनिर्गमनेन कायस्थितिकालेन असंख्यपुद्गलपरावर्त्तकालेन निर्लेपनं सर्वजीवशून्यत्वं आपन्नम् । सिद्धिरपि च सर्वभव्यानाम् । (२) येन प्रतिसमयं असंख्येया उद्वर्तन्ते, ततस्तदभ्यस्ताः = असंख्येयजीवगुणिता कायस्थितेः समया वनस्पतीनां च परिमाणम् । - इति । भावार्थस् प्रतिपादितपदार्थानुसारेण सुगमः ।
=
=
-
=
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૮૬