________________
प्रस्तावः।
इदं हि सर्वेषां विदितम्- सर्वेऽति प्राणभाजः सुखायैव स्मृहयन्ति चेष्टन्ते च । किं पुनरत्र कारणम्-प्रयतमाना अपि तदर्थं तद् नाप्नुवन्ति ? । महान् खल्वयं प्रश्नो महतो विचारानपेक्षते । यदि च कश्चिद् एवं वदेत्- “दृश्यन्त एव पृथिवीपीठे तथाविधाः श्रीमन्तो विद्वांसो यशस्विनो वा सुखिनः," न तर्हि तदीया मतिरप्रान्ता । शोक-परितापेन समप्रसंसारवर्तिनां शरीरिणां व्याप्तत्वात् । न चोप्रशोकतापसम्पृक्ताः सुखकणा भवन्ति सुखम् । वस्तुत ऐन्द्रियकविषयानुभवजनित भाह्लादः परितापमयत्वात् संक्लेशनिबन्धनत्वाच्च सुखमेव नाईति भवितुम् । तस्मात् श्रीमत्त्वादिभिः सम्भाव्यमानाः सुखिनो न सन्ति सुखिनः, इति प्रतिपत्तव्यम् ।
कस्यापि वस्तुनः संसाधनं तत्-तस्कारणस्वरूपपरिचयं तदनुकूलप्रयत्नं च विना न भवतीति सुप्रसिद्धम् । एवं च सुखस्यापि लाभः, तत्-तत्कारणस्वरूपपरिचय-तदनुकूलप्रयत्नत एव सम्पत्तुमर्हतीति सुप्रतिष्ठितम् । अथ परिभावनीयम्संसारप्रपञ्चवर्तिनो देहिनः सुख-तत्कारणज्ञान-तदनुकूलप्रयत्नशालिनः सन्ति नवा? । विचारमार्गप्रहितेन चेतसा शक्यतेऽवधारयितुम्- जगदिदं वास्तवसुख-तत्कारणपरिशानात् पराङ्मुखं तदनुकूलप्रयत्नाच्च दूरीभूतम् । इदमेव च कारणं यद् न लभन्ते सुखसम्पदं तदधिनस्तदुद्योगभाजोऽपि ।
ये च " मुखं किंस्वरूपम् , का च तत्सम्पादनपद्धतिः" इति यथावत समवगच्छन्ति, ते विना तत्र यथात्मशक्ति प्रयत्नं कर्तुं न शक्नुवन्त्यवस्थातुम् । अतः प्रथमतः सुख-तत्साधनपरिज्ञानमेव प्रथमसाध्यतया दृष्टिसमक्षमुपतिष्ठते ।
एतत्परिज्ञानायैव हेतवे अयं प्रन्थ उपनिवद्धः । न च तात्त्विकसुखस्योपदर्शनम्, अतात्विकसुखस्य, तत्प्रयोजकविषयाणां तत्सम्बन्धिनां राग-द्वेष-मोहानां तत्संसर्गवतय व्यवहारप्रपञ्चस्य वैगुण्यपरिदर्शनेन विना शक्यते कर्तुम् । अतोऽनादिसम्बन्धवतां सुखपरिपन्थिनां नैर्गुण्यप्रदर्शनमत्र ग्रन्थे महता विस्तरेण कर्तुमुचि. तममंसि । नहि अस्मदाहसंसृष्टानां सुखस्य प्रतिबन्धकानां दुष्टत्वभावनमन्तरेण शक्यते तत्सम्बन्धो व्यपनेतुम् । एवं च, "मात्मनः स्वरूपावस्थानं सुखम् " तत्साधनं