________________
(२१) शुक्रं शरीरस्य समस्ति राजा हते पुना राशि पुरस्य हानिः । रक्षेत् ततः कामशरेभ्य एनं ब्रह्मोच्चसन्नाहधरं विधायं ॥४७॥ कः प्रत्ययस्तत्र परं पुमांसं या सेवते स्त्री चपलाऽपलज्जा। विषस्य पानं दहने च पातो वरं परस्त्री न तु सेवनीया ॥४८॥ सर्वस्वनाशः प्रबलं च वैरं बन्धो वपुष्पातनसंशयातिः। परत्र घोरस्थलसङ्गमश्वाऽन्यस्त्रीप्रसङ्गस्य फलान्यमूनि ॥ ४९ ॥ शिरीषपुष्पाधिकमार्दवाङ्गी समुच्छलत्सुन्दरकान्तिपूराम् । समुच्छसत्पङ्कजगन्धि-पर्वशरत्सुधाधाममनोहराऽऽस्याम् ॥५०॥
एवं विधां प्रौढकलाकलापामपि त्यजेद् योषितमन्यदीयाम् । साधारणस्त्रीमपि कालकूटवल्लीं परिज्ञाय विवेकशाली ॥५१॥
युग्मम् । मनःप्रवृत्तिर्वचसः प्रवृत्तिर्देहप्रवृत्तिश्च मिथो विभिन्नाः । यासां न साधारणयोषितस्ता निषेविताः स्युः सुखसम्पदायै ॥५२॥ वेश्यानुषक्तः पुरुषः किलाऽसत्सङ्गप्रसङ्गाभिरतो विवेकात् । तथाविधं भ्रश्यति येन देवान् न मन्यते नापि गुरूंश्च बन्धून् ॥५३|| द्रव्येच्छया कुष्ठिनमप्यमोपमं परिस्निग्धदृशेक्षते या। स्नेहोज्झितां तां सृजतीमसत्यस्नेहं न गच्छेद् गणिकां कदापि ॥५४॥ रूपं यदेव प्रविलोक्य माद्यन्नाभ्यन्तरं तस्य यदि स्वरूपम् । विचिन्तयेत् तत्त्वदृशा, न तर्हि भवेत् स्मरान्दोलितचित्तवृत्तिः॥५५॥ पराङ्गनासङ्गमपातकाग्नौ सर्वे गुणा आहुतिमाप्नुवन्ति । अतः परं किञ्चन नास्ति मौर्यमतः परं नाप्यधमं चरित्रम् ॥५६।। पुंसः प्रतीदं प्रतिपाद्यते स्म यद् ब्रह्मचर्य वनिताजनोऽपि । तात्पर्यतस्तत् क्षमते ग्रहीतुं निज स्थितिं चेतसि लक्षयित्वा ॥५७॥ परिग्रहाद मूर्च्छति, मूर्च्छनाच्च कर्मप्रबन्धा इति सम्प्रवीक्ष्य । परिग्रहं सर्वमपि त्यजन्ति द्रव्यादिरूपं मुनयोऽपसङ्गाः ॥१८॥