________________
નિમંત્રણા સામાચારી
एव । अत्र = शक्रस्तववचने 'अस्तु' इति हि प्रार्थना = " मम नमस्कारो भवतु" इति प्रार्थनासूचकम् 'अस्तु' पदं । सा च= प्रार्थना च सिद्धे नमस्कारे= षष्ठसप्तमगुणस्थानवर्तिनां भावनमस्कारस्वामिनां नमस्कारस्य सिद्धत्वात् कथं नमस्कारस्य प्रार्थना तेषां शक्रस्तवपठनेन घटत इति प्रत्यवस्थाने = शङ्कायां तदुत्कर्षस्य = सिद्धनमस्कारादुत्कृष्टो यः नमस्कारः, तस्येति भावः असिद्धत्वादेव = अप्राप्तत्वादेव तत्र - उत्कृष्टनमस्कारे तत्संभव = इच्छायाः संभवः इति समर्थितं = प्रत्युत्तरं दत्तं ।
“એક કાર્ય સિદ્ધ થવા છતાં તેને સમાન એવા બીજા કાર્યને વિશે ઈચ્છા થઈ શકે છે” એ સિદ્ધાન્તને બરાબર अनुसरीने ४ "नमोऽस्तु” से शस्तवनुं वयन युक्तियुक्त तरी साजित रायेसुं छे.
यशो. - तथा च तद्ग्रन्थः- “यद्येवं न सामान्येनैवं पाठो युक्तः, भावनमस्कारवतस्तद्भावेन तत्साधनाऽयोगात् । एवमपि पाठे मृषावादः, 'असदभिधानं मृषा' इति वचनात्, असदभिधानं च भावतः सिद्धे तत्प्रार्थनावचः, तद्भावेन तद्भावनायोगादिति, उच्यते यत्किञ्चिदेतत्, तत्त्वाऽपरिज्ञानाद्, भावनमस्कारस्याप्युत्कर्षादिभेदोऽस्त्येवेति तत्त्वम् । एवं च भावनमस्कारवतोऽपि तथातथोत्कर्षादिभावेनास्य तत्साधनायोगोऽसिद्धः, तदुत्कर्षस्य साध्यत्वेन तत्साधनोपपत्तेरिति । एवं चैवमपि पाठे मृषावाद इत्याद्यप्यन ( ? पा) र्थकमेव, असिद्धे तत्प्रार्थनावचः इति न्यायोपपत्तेरिति" । विस्तरस्तु मत्कृत विधिवादादवबोध्यः ॥६६॥
चन्द्र. - ललितविस्तरागतपाठगतविषमपदव्याख्या त्वेवम् यदि एवम् = यदि 'नमोऽस्तु' इति हि वचनं नमस्कारस्य प्रार्थना, तर्हि न सामान्येन=न सर्वसाधूनाम् एवं = प्रार्थनारूपो पाठो = वक्तुं युक्तः = योग्यः । कथं न योग्य ? इत्याह भावनमस्कारवतः = मुनेः तद्भावेन=नमस्कारसद्भावेन तत्साधनायोगात् = नमस्कारप्रार्थनायाः अघटमानत्वात् । एवमपि = नमस्कारप्रार्थनायाः अयोग्यत्वेऽपि पाठे - 'नमोऽस्तु' इति प्रार्थनागर्भितपाठे उच्चार्यमाणे मृषावादः । कथं मृषावादः इत्याह असदभिधानं मृषा इति वचनात् । ननु अत्र किं असदभिधानं कृतं ? इत्यत आह असदभिधानं च भावतः सिद्धे इत्यादि । तद्भावेन= नमस्कारसद्भावेन तद्भावनायोगात्=नमस्कारप्रार्थनायाः अघटमानत्वात् इति = आशङ्कासमाप्तिसूचकं "इति" पदम् ।
उच्यते = समाधानं दीयते तथातथोत्कर्षादिभावेनास्य = अस्य नमस्कारस्य तथातथोत्कर्षादिसद्भावेन तद्साधनायोगो =नमस्कारसाधनाऽयोगो असिद्धः अयुक्तः । तदुत्कर्षस्य भावनमस्कारोत्कर्षस्य । एवं च = यतः भावनमस्कारोत्कर्षः साध्यः, न तु सिद्ध:, ततः 'एवमपि पाठे मृषावादः ' = इति यत्त्वया भणितं तत् अनर्थकमेव ||६६॥
આ પ્રમાણે લલિતવિસ્તરાનો પાઠ છે.
प्रश्न : भेजा 'नमोऽस्तु' यह 'नमस्कारनी प्राप्ति थाखो' से प्रमाणे प्रार्थना३य होय, तो पछी મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭૦ ૭૯