________________
નિમંત્રણા સામાચારી
વૈયાવચ્છાદિની ઈચ્છાવાળો બને ?
यशो. - न, यत्किञ्चिद्घटमात्रलाभेऽपि जलाहरणाद्युद्देश्यसिद्ध्या तत्र फलेच्छां विना तदुपायेच्छाविच्छेदात् । मोक्षोपायस्य तु यस्य कस्यचिल्लाभेऽप्युद्देश्यमोक्षाऽसिद्धया तदिच्छाऽविच्छेदेन तदुपायेच्छाऽविच्छेदात् ॥६५॥
चन्द्र. - समादधति । यत्किञ्चिद्घटमात्रलाभेऽपि = एकस्यापि घटस्य लाभेऽपि जलाहरणाद्युद्देश्यसिद्ध्या = घटः यदर्थं इष्यते, तज्जलानयनादि रूपं यत् कार्यं तदेवोद्देश्यं भण्यते । तस्य एकेनापि घटेन संभवात् तत्र = घटदृष्टान्ते फलेच्छां विना = जलानयनात्मकफलेच्छां विना तदुपायेच्छाविच्छेदात् = जलानयनोपायस्य घटस्य इच्छाया विच्छेदात् । प्रकृते तु नैवम् । यतः मोक्षोपायस्य तु इत्यादि । फलसिद्धिः उपायेच्छां विनाशयतीति नियमः । फलसिद्ध्यभावे तु उपायेच्छा न विनश्यतीति यावन्मोक्षप्राप्तिः न भवेत्, तावत् महामुनीनां वैयावृत्यादिषु इच्छा भवेदेवेति ॥६५॥
ગુરુ : જો ભાઈ ! ઘટની ઈચ્છા પાણી લાવવા રૂપી કાર્ય કરવા માટે હતી. હવે ગમે તે ઘટની પ્રાપ્તિ થાય તો પણ એના દ્વારા પાણી લાવવાદિરૂપ ઉદ્દેશ્યની=કાર્યની સિદ્ધિ થઈ જાય છે. એટલે ત્યાં પાણી લાવવાદિ રૂપ ફળની ઈચ્છા નષ્ટ થાય છે અને એ નાશ પામે છે માટે જ ત્યાં પાણી લાવવાદિ રૂપ કાર્યના ઉપાયભૂત ઘટની ઈચ્છાનો પણ વિચ્છેદ થાય છે.
જ્યારે અહીં ભલે સ્વાધ્યાયાદિ કોઈક મોક્ષોપાયનો લાભ થયો હોય તો પણ ઉદ્દેશ્ય=ફળ=મોક્ષની સિદ્ધિ તો નથી જ થઈ. એટલે ફળની=મોક્ષની ઈચ્છા ઉભી છે. અને એટલે મોક્ષની ઈચ્છાના અવિચ્છેદને લીધે સ્વાધ્યાયાદિ ઉપાયોની ઈચ્છાનો અવિચ્છેદ પણ રહેવાનો જ ।।૬૫।।
यशो. ननु तथाऽपि कृतवैयावृत्त्यस्य साधोः कथं समयान्तरे तत्रैवेच्छा ? तस्य सिद्धत्वज्ञानेन तत्रेच्छाप्रतिबन्धात्-इत्याशङ्कामपनिनीषुराह -
सिद्धे मुणीण कज्जे तम्मि वि इच्छोचिया असिद्धम्मि । उक्कट्ठे तेणेव य समत्थियं किर णमुत्थु त्ति ॥६६॥
चन्द्र. - पुनः शङ्कते ननु तथापि = यद्यपि मोक्षेच्छाऽविच्छेदात् उपायेच्छाविच्छेदो न भवेत् तथापि कृतवैयावृत्यस्य=येन प्रातः, ह्यस्तनदिने वा वैयावृत्यं कृतं, तस्य साधोः कथं समयान्तरे=मध्याह्नादौ तत्रैवेच्छा = वैयावृत्ये एव इच्छा संभवेत् ? किं न संभवेत् ? इत्यत्र पूर्वपक्षः कारणमाह तस्य सिद्धत्वज्ञानेन वैयावृत्यं मया कृतमेव" इति वैयावृत्ये यत्सिद्धत्वस्य ज्ञानं, तेन तत्र वैयावृत्ये इच्छाप्रतिबन्धात् = इच्छानिरोधात्। सिद्धे वस्तुनि इच्छा न संभवति । साध्ये एव वस्तुनि इच्छा संभवतीति भावः ।
समादधति । → कार्ये सिद्धे सत्यपि मुनीनां तस्मिन्नपि असिद्धे उत्कृष्टे कार्ये इच्छा उचिता । तेनैव च "नमोऽस्तु" इति समर्थितम् ← इति गाथार्थः ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૭૬