________________
5555SSETTEBSITESTRESSESSESSE
SEAR INITIATTETTETTETTETTETTEERTREETTERTIEEEEET _ना सामाचारी __यशो. - निरुपाधिकेच्छा तु तत्र न संभवति, सुखदुःखहान्यन्यतरत्वाभावात्,
ऐहिकसुखहेतुतया तत्रेच्छायां तु मोहनिमित्तकर्मबन्ध इति । र चन्द्र. - ननु छन्दनायां प्रवृत्तिः छन्दनाया एव इच्छया क्रियते । न तु मोक्षस्य कीादेर्वा इच्छया छन्दनायां प्रवृत्तिरित्यत आह निरुपाधिकेच्छा तु यद्विषयिका इच्छा विषयान्तरेच्छाजन्या, तद्विषयिका इच्छा सोपाधिकेच्छा भण्यते । यथा व्यापारकरणविषयिका इच्छा धनार्जनविषयकेच्छाजन्या इति सा सोपाधिकेच्छा गण्यते । एवं धनार्जनविषयिका इच्छा भोजनवस्त्रगृहादीच्छाजन्येति साऽपि सोपाधिकेच्छा गण्यते । किन्तु यद्विषयिका इच्छा विषयान्तरेच्छाजन्या न भवति, सा निरुपाधिकेच्छा भण्यते । यथा सुखेच्छा न कस्यचिद। र विषयान्तरस्येच्छया जन्या अस्ति । एवं दुःखनाशेच्छाऽपि न कस्यचिद् विषयान्तरस्येच्छयाजन्या अस्ति इति सुखेच्छा दुःखहानीच्छा च निरुपाधिकेच्छा भण्यते । प्रकृते तु छन्दनायां निरुपाधिकेच्छा न संभवति । कथं न संभवतीत्यत्र कारणमाह सुखदुःखहान्यन्यन्तरत्वाभावात् सुखे दुःखहानौ वा अन्यतरस्मिन्नेव वस्तुनि निरुपाधिकेच्छा संभवति । छन्दना तु न सुखं, नापि दुःखहानिः इति तदिच्छा निरुपाधिकेच्छा न संभवति ।। किन्तु विषयान्तरेच्छाजन्यैव छन्दनेच्छा संभवति । एवञ्च ज्ञानादीच्छाजन्या छन्दनेच्छा उपयोगिनी । कीर्त्यादीच्छाजन्या छन्दनेच्छा अज्ञाननिमित्तककर्मबन्धजननी । ऐहिकसुखहेतुतया="यदि अहं अस्य : २ ग्लानादेः वैयावृत्यादिकं करिष्यामि, तर्हि एषः मां मिष्टान्नादिकं दास्यति, मया सह देशान्तरे आगमिष्यति । ममोपधिप्रतिलेखनादिकं करिष्यति" इत्यादि चिन्तनेन ऐहिकसुखस्य कारणतां छन्दनादौ निश्चित्य तत्र-छन्दनादौ इच्छायां तु मोहनिमित्तकर्मबन्धः ऐहिकसुखलाम्पट्यनिमित्तकः कर्मबन्धो भवतीति । ।
ननु कीर्त्यादीनामिच्छाऽपि मोहरूपैव, यतः कीर्तिरपि ऐहिकसुखमेवास्ति । ततः तत्रापि मोहनिमित्तकः कर्मबन्ध एव भवति । भवता तु अज्ञाननिमित्तकः प्रतिपाद्यते । तन्न युक्तमेतदिति चेत् अत्र व पञ्चेन्दियसुखान्येवैहिकसुखतया अभिप्रेतानि । कीर्तिस्तु न तादृशीति एकं समाधानं । वयं तु संभावयामः यदुत 2 "कीर्त्यादिकं मोक्षोपायः, यतः साधूनां कीर्त्या जिनशासनप्रभावना भवति । बहवः प्रतिबुद्ध्यन्ते । ततश्च
"कीर्तिमान् साधुः जिनशासनप्रभावनादिनिमित्तं भवतीति स शीघ्रं मोक्षं प्राप्नोति" इति मत्वा यः मोक्षोपायत्वं कीर्त्यादौ अभिसन्धाय कीाद्यर्थं वैयावृत्यादिकं करोति, तस्याज्ञाननिमित्तक: कर्मबन्धो भवति । स हि यद्यपि मोक्षकामनावानस्ति । तथापि मोक्षानुपाये कीर्त्यादौ तस्य मोक्षोपायत्वस्य भ्रमोऽस्तीति तस्य मोहनिमित्तकः के कर्मबन्धो न गण्यते, किन्तु अज्ञाननिमित्तक एव कर्मबन्धो गण्यते । तत्त्वं पुनः गीतार्था जानन्ति । | (શિષ્ય : છંદક મોક્ષાદિની કોઈપણ ઈચ્છા વિના માત્ર વૈયાવચ્ચ-છંદના કરવાની જ ઈચ્છાથી વૈયાવચ્ચछन। न ४२0 3 ?) છે ગુરુઃ ના. જે ઈચ્છા બીજી કોઈ વસ્તુની ઈચ્છાથી ઉત્પન્ન થયેલી હોય તે સોપાધિક-ઈચ્છા કહેવાય. દા.ત. 8 તૃપ્તિ મેળવવાની ઈચ્છાથી ભોજન કરવાની ઈચ્છા થાય. ભોજનની ઈચ્છાથી રસોઈ બનાવવાની ઈચ્છા થાય. છે પણ બીજી કોઈપણ વસ્તુની ઈચ્છા વિના સીધી જ જે ઈચ્છા થાય એ નિરૂપાધિક ઈચ્છા કહેવાય. આ ઈચ્છા છે શું માત્ર “સુખ અને દુઃખનાશ” એમ બે જ વસ્તુમાં સંભવી શકે છે. સુખની ઈચ્છા કે દુ:ખનાશની ઈચ્છા બીજી રે
4000000000000000000000000000000000000
Shrs
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૬
0 005880000000000000585850888560HEEasmatatasamacaranaaurtals