________________
मेवात्र समाधानम्, तच्चान्यत्रापि समानमिति भावः ॥५४॥ ॥ इति न्यायविशारदविरचिते सामाचारीप्रकरणे प्रतिपृच्छा समाप्ताऽर्थतः ॥७॥
પ્રતિપૃચ્છા સામાચારી
चन्द्र.
ननु कथं प्रतिपृच्छायाः इच्छाकारसमाचारीत्वापत्तिरित्यत आह इदं भदन्तोपदिष्टं इत्यादि । उपधेयसाङ्कर्येऽपि=आपृच्छेच्छाकारयोः साङ्कर्येऽपि उपाध्योरसाङ्कर्यं एव = आपृच्छेच्छाकारलक्षणयोरसाङ्कर्यं एव अत्र = इच्छाकारापृच्छासामाचार्योरभेदापत्तौ समाधानम् = प्रत्युत्तरम् । तच्च = इदं समाधानं च अन्यत्रापि = आपृच्छा-प्रतिपृच्छयोर्भेदविवक्षायामपि समानम् ।
-
इदमत्र तात्पर्यम् - एकस्य स्फटिकस्य एकस्मिन्पार्श्वे श्यामपटः, अपरस्मिँश्च पार्श्वे रक्तपटः अस्ति । ततश्च स्फटिकः श्यामः रक्तश्च दृश्यते । अत्र च स्फटिकः उपधेयः, श्यामरक्तपटौ च उपाधी । उपाधिद्वयधर्मयोः एकस्मिन्नेव उपधेये वस्तुनि दर्शनमत्र उपधेयसाङ्कर्यमुच्यते । एतच्च प्रकृतेऽस्ति । किन्तु श्यामरक्तपयै तु परस्परं भिन्नौ एवेति उपाध्योः साङ्कर्यं नास्ति। एवं "गुरो ! अहं इच्छाकारेण गच्छामि, किन्तु अपशुकनं मां निवारयति" इति एतत्वाक्यमत्र उपधेयं । तत्र इच्छाकारलक्षणं आपृच्छालक्षणं च उपाधिरूपं प्रकृते वाक्ये घटते इति उपधेयसाङ्कर्यं अस्ति । तथापि ते द्वे तु भिन्ने एवेति उपाधिसाङ्कर्यं नास्ति । तस्मात् इच्छाकारापृच्छासामाचार्यौ भिन्ने । एवमेव आपृच्छाप्रतिपृच्छे अपि भिन्ने । एतत्सर्वं टीकानुसारतः संक्षेपेण निगदितम् । मन्दमतीनां स्पष्टबोधार्थमधुना सविस्तरं निरूप्यते ।
पूर्वपक्ष: प्राह प्रतिपृच्छायां आपृच्छायाः लक्षणं घटते एवेति प्रतिपृच्छा आपृच्छायाः सकाशात् भिन्ना न मन्तव्या ← इति । मध्यस्थ : प्राह प्राक्निषिद्धं प्राक्निवेदितं वा कार्यं प्रतिपृच्छायाः विषयः, नूतनकार्यं तु आपृच्छायाः विषयः इति विषयभेदात् तयोः भेदः ← इति । पूर्वपक्ष: प्राह एवं तर्हि विहारापृच्छायाः, वस्त्रप्रक्षालनापृच्छायाः, स्वाध्यायाद्यापृच्छायाश्च विषयाः भिन्नाः इति कृत्वा ता प्रत्येकमापृच्छाः विभिन्नाः सामाचार्यः भवेयुः । ततश्चानन्ताः सामाचार्यः मन्तव्याः भवेयुः ← इति ।
अधुना उत्तरपक्षः प्राह यथा सास्त्रावत्वं गोः लक्षणं चतुष्पादवत्त्वं च पशोः लक्षणमस्ति । तत्र च गोपिण्डः पशुलक्षणेनाक्रान्त एव, तथापि स गोभावं न परित्यजति । यतः गोः लक्षणं पशोश्च लक्षणं भिन्नमेव । एवं प्रतिपृच्छा आपृच्छालक्षणेन आक्रान्तैव । तथापि सा प्रतिपृच्छा प्रतिपृच्छासामाचारीत्वं न परित्यजति । यतः प्रतिपृच्छायाः लक्षणं आपृच्छायाः लक्षणं च भिन्नमेवेति ।
तथा च यानि प्रमाकरणस्वरूपाणि इन्द्रियादीनि प्रमाणानि तानि सर्वाणि प्रमाविषयस्वरूपाणि प्रमेयानि सन्त्येव । यानि च घटेन्द्रियादीनि प्रमेयानि । तानि सर्वाणि प्रमाणस्वरूपाणि न भवन्ति, किन्तु कानिचिदेव । अथ च प्रमाणानि प्रमेयस्वरूपाण्यपि प्रमाणस्वरूपाणि स्वीक्रियन्ते एव ।
एवमेव याः याः प्रतिपृच्छाः ताः ताः आपृच्छाः भवन्ति । किन्तु याः याः आपृच्छाः, ताः ताः प्रतिपृच्छाः न भवन्ति । अथ च प्रतिपृच्छाः आपृच्छास्वरूपाः अपि प्रतिपृच्छास्वरूपाः स्वीक्रियन्ते एव ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૪૪