________________
HTTERRIERRIER
RINGuसंपE सामायारी चारित्रोपसंपद्वर्णयिष्यते । ततश्च दर्शनोपसंपत्कथमत्र नोक्ता? इति शङ्कायामाह ज्ञानोपसंपद्विध्युक्त्या तथा र १ च ज्ञानदर्शनोपसंपदोः तुल्यत्वात् ज्ञानोपसंपद्विधिकथनेन दर्शनोसंपद्विधिः कथित एव दृष्टव्यः ।
→ चारित्रोपसंपत् पुनः वैयावृत्ये क्षपणे च भवति । सीदनादिवशेन अन्यगच्छे गमनं भवति - इति । गाथार्थः । .
જ્ઞાનોપસંપદની વિધિ બતાવી. એના કથન દ્વારા દર્શનપસંપદની વિધિ પણ કહેવાઈ જ ગઈ. કેમકે બે કે ય સરખી જ છે. હવે ચારિત્રો પસંદને કહેવાની ઈચ્છાવાળા કહે છે કે
ગાથાર્થ : ચારિત્રો પસંપદ વૈયાવચ્ચ અને ક્ષપણ = અનશન = તપને આશ્રયીને બે પ્રકારે છે. સદન છે વિગેરેના કારણે અન્યગચ્છમાં ગમન થાય છે.
यशो. - चरणोवसंपयत्ति । चरणोपसंपत्-चारित्रोपसंपत् पुनः विशेषणे, कि विशेषयति ? द्वैविध्यं वैयावृत्ये च वैयावृत्त्यनिमित्तं च क्षपणे चक्षपणनिमित्तं च । ननु किमत्रोपसंपदा प्रयोजनम् ? स्वगच्छ एव वैयावृत्त्यं क्षपणं वा कुतो न क्रियते ? इति चेद्? भण्यते सीदनं साधुसामाचार्यां प्रमत्तता, मकारोऽत्राऽलाक्षणिकस्ततः सीदनमादिर्यस्य स्वकार्याऽक्षमक्षपकान्तरशालिस्वगच्छप्रतिसंधानादेस्तद्वशेन तत्तन्त्रतया अन्यगच्छे= स्वगच्छातिरिक्तगच्छे पुनर्गमनं भवति ॥१३॥
चन्द्र. - वैयावृत्यनिमित्तं आचार्यादीनां वैयावृत्यकरणार्थं क्षपणनिमित्तं विशिष्टतपःकरणार्थञ्च ।। साधुसामाचार्यामित्यादि-तथा च स्वगच्छे वैयावृत्यादिकार्येषु प्रभूतः प्रमादो यदि वर्तेत, तदा तत्र वैयावृत्यकरणं नोचितं । यतः प्रमादिभिः सह निवासे वैयावृत्यकरणेच्छुः मुनिरपि प्रमादी भवेत् । किञ्च जिनाज्ञानुसारेण वैयावृत्यकरणमुचितं । तत्र तु गच्छे यदि जिनाज्ञोल्लङ्घनं कृत्वैव वैयावृत्यं प्रवर्तेत, तहि तत्र वैयावृत्यकरणेऽपि को लाभः ? तस्मात् साधुसामाचार्यां अप्रमादिनां साधूनां गच्छे गत्वा तत्रस्थानामाचार्यादीनां वैयावृत्यं क्रियते । ___ अथवा स्वगच्छे सर्वे साधवः युवानः अग्लानाश्च वर्तन्ते । ततश्च तत्र वैयावृत्यकरणस्याव सर एव न भवति । एवं च वैयावृत्यरूपायां साधुसामाचार्यां वैयावृत्यकरसाधुः सीदति । ततश्च स परगच्छे गच्छतीति ।
स्वकार्याक्षमक्षपकान्तरेत्यादि-स्वगच्छे विद्यमानः अन्यः कश्चित्क्षपकोऽत्र स्वपदेन ग्राह्यः । ततः स क्षपकः स्वकार्यकरणेऽक्षमोऽस्ति । तादृशः यद् क्षपकान्तरं क्षपणं कर्तुमिच्छतः विवक्षितस्य साधोः सकाशादन्यः यः स्वकार्यकरणाक्षमः क्षपकः, तयुक्तो यः स्वगच्छ:, तद्बोधादिति । अयं भावः अयं साधुः स्वगच्छे एव क्षपणं कुर्यात् । किन्तु स्वगच्छे तादृशोऽन्यः क्षपको विद्यते, यः स्वकार्याणि कर्तुं अक्षमोऽस्ति। ततः स्वगच्छः तस्यैव वैयावृत्ये व्यापृतः । ततश्च यदि अयं साधुः स्वगच्छ एव क्षपणं कुर्यात्, तर्हि तस्य वैयावृत्यादिकं कः कुर्यात् ? यतः स्वगच्छस्तु क्षपकान्तरसेवायां व्यापृतः । तस्मादयं साधुः क्षपणार्थमन्यस्मिन्गच्छे गच्छतीति ॥९३॥ છે ટીકાર્થઃ ગાથામાં “પુનઃ” શબ્દ વિશેષ અર્થમાં છે. વિશેષ અર્થ એ કે આ ચારિત્રો પસંપદ “બે પ્રકારની છે
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૪૧ છે