________________
ઉપસંપદ સામાચારી
સાધુમાં પડી છે. એટલે સંસારી માટે સાધુ સ્વારાધનીયગુણાધિક હોવાથી વંદનીય બને II૮૬ા
यशो.
-
उक्तमेव विवेचयितुं यथा वन्दापने दोषस्तथाह
जाणंतस्स हि अगुणं अप्पाणं सगुणभावविक्खायं । वंदावंतस्स परं दोसो मायाइभावेणं ॥८७॥
चन्द्र. - → सगुणभावविख्यातं आत्मानं अगुणं जानतोऽपि परं वन्दापयतः मायादिभावेन दोषः ← इति गाथार्थः ।
કહેલી જ વાતને વિસ્તારથી કહેવા માટે “જે રીતે વંદન સ્વીકારવામાં દોષ છે” એ રીત કહે છે.
ગાથાર્થ : ગુણવાળા તરીકે વિખ્યાત થયેલા એવા પોતાના આત્માને નિર્ગુણી તરીકે જાણતા અને છતાં બીજાને વંદન કરાવતા સાધુને માયાદિના સદ્ભાવને લીધે દોષ લાગે.
यशो. - जाणंतस्स हि त्ति । आत्मानं = स्वं अगुणं = गुणरहितं जानत: =अध्यवस्यतः हिः उपदर्शने कीद्दशमात्मानम् ? सगुणभावेन गुणवद्रूपतया विख्यातं लोके प्रसिद्धम्, एतेन परवन्दनयोग्यताप्रकारोपदर्शनं कृतं भवति, बालमध्यमयोर्लिङ्गवृत्तमात्रमपेक्ष्य प्रवृत्तिशीलत्वात्,
"बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥"
( षोड० १ / २ ) इति वचनात् । परं = स्वारोपितगुणाराधने च्छाशालिनं वन्दापयतः=वन्दनं कारयतः दोषः = कर्मबन्धः मायादिभावेन - कपटादिपरिणामेन भवति ।
चन्द्र. - एतेन = " गुणवद्रूपतया लोके प्रसिद्धमात्मानं " इति कथनेन परवन्दनयोग्यताप्रकारोपदर्शनं= “परैः क्रियमाणस्य वन्दनस्य योग्यता अस्मिन्विद्यते" इति उपदर्शितं भवति । यो हि गुणवत्तया लोके प्रसिद्धो भवति । तं सर्वेऽपि वन्दन्ते इति ।
1
ननु एषः परमार्थतो गुणरहितोऽस्ति । ततः कथं लोके 'गुणवान्' इति ख्यातिं तद्द्वारा च लोके वन्दनीयतां प्राप्तवान् ? इत्यत आह बालमध्यमयो:[:=असदाचारवान् बालः, मध्यमाचारवान् मध्यमः, तयोः लिङ्गवृत्तमात्रमपेक्ष्य=साधुवेषबाह्याचारमात्रमपेक्ष्य प्रवृतिशीलत्वात् = ' अयं वन्दनीयः' इति मत्वा वन्दनकरणस्वभावत्वात् । त्रिविधा हि आत्मानः लोके कथिताः । बालः, मध्यमः, पण्डितश्च । तत्र बालमध्यमौ व्याख्यातौ । मार्गानुसारिप्रज्ञावान् पण्डितो भवति । स च परिणतिमेव पश्यति । लोके च पण्डितात्मानो न बहवः । किन्तु बालमध्यमा एव । तत्र बालः साधुवेषमात्रं दृष्ट्वा 'अयं वन्दनीयः' इति मत्वा वन्दते । मध्यमस्तु स्थूलाचारं दृष्ट्वा, ‘अयं वन्दनीयः' इति मत्वा वन्दते । प्रकृतश्च साधुः गुणरहितोऽपि साधुवेषस्थूलाचारयुक्तः अस्त्येव । ततश्च स लोके वन्दनीयतां प्राप्नोतीति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૨૫