________________
४४
अथ आचारोपनिषद
तथैव तपसे कश्चि - दुपसम्पदमृच्छति । विकृष्टक्षपकस्स स्या - दविकृष्टतपास्तु वा ॥ ६॥
यदर्थमुपसम्पन्न- स्तमर्थं न करोति यः । स्मारणा क्रियते तस्य, ततोऽपि च विसर्जनम् ।। ७ ।।
यद्वा समाप्तिमानीते, प्रतिपन्नप्रयोजने । स्मारणा क्रियते तस्य ततोऽपि च विसर्जनम् ॥ ८ ॥
(उपजाति) निरूपितेयं श्रमणोपसम्पद्, निगद्यतेऽथ सगृहोपसम्पद् । नावग्रहे केनचिदप्यदत्ते, स्थेयं तृतीयवतरक्षणार्थम् ॥७९॥