________________
४२
अथ आचारोपनिषद
१०. उपसम्पद् ज्ञानाद्यर्थमन्यगच्छ - सूरिप्रभृतिसेवनम् । उपसम्पदिति ख्याता, इत्वरकालीना च सा ।। १ ।।
ज्ञानदर्शनचारित्र-भेदादेषा त्रिधा मता । ज्ञाने तु वर्त्तना सन्धि-र्ग्रहणं चेत्यपि विधा ।। २ ।।
त्रितयं तच्च सूत्रार्थो - भयगतं निरूपितम् । दर्शनेऽप्येवमेवैषा, ज्ञेया नवविधा तथा ।। ३ ।।
वर्त्तना तु स्थिरीकारः, सन्धना घटना मता । प्रदेशान्तरनष्टस्य, ग्रहणं तु नवग्रहः ॥ ४ ॥
चारित्रार्थं सूरेः कश्चिद्, वैयावृत्यं प्रपद्यते । ईत्वरो वा भवेद् यावत् - कथिकोऽप्यथवा तु सः ।।५।।