________________
३८
अथ आचारोपनिषद्
९. निमन्त्रणा गुर्वाज्ञयाउगृहीतस्या - शनादेः प्रार्थना तु या । स्वाध्यायादिपरिश्रान्तः, कुर्यादेनां निमवणाम् ।।१।।
स्वाध्यायादिकखिन्नोऽपि, सेवार्थमुद्यमी भवेत् । अविच्छिन्नेच्छभावेन, सिद्धिसाधककर्मसु ॥ २ ॥
..
जिनवचासुधासत्क, परिणतेस्तु सम्भवेत् । निरन्तरमभिलाषो, मोक्षानुष्ठानसन्ततौ ।। ३ ।।
यथा बुभुक्षितस्येच्छा, जातु नोच्छिद्यतेऽशने । तथा मोक्षार्थिनामिच्छा, नोपाये छिद्यते क्षणम् ।। ४ ।।
न योग्यतां विना शस्या, हीच्छाऽप्यौचित्यभङ्गतः । गुरुपृच्छया तां ज्ञात्वा, प्रवर्तेत सदाप्यतः ।। ५ ।।