________________
अथ आचारोपनिषद बालादिश्चेन्न गृहणीयात्, तथापि सफलैव सा । आज्ञाशुद्धस्य भावस्य, निर्जरा फलदत्वतः ॥ ५ ॥
निर्जरा भावशुद्धौ स्याद्, ग्रहणेऽग्रहणेऽपि च । बन्धस्तु भावमालिन्ये, ग्रहणेऽग्रहणेऽपि च ।।६।।
द्वादशाङ्गाप्तसाराणां, रहस्यमृषीणां परम् । प्रमाणं परिणामस्स्या - दाश्रितानां विनिश्चयम् ।।७।।
ज्ञानाद्युपग्रहाऽऽशंसा-जन्या भवतु छन्दना । मा प्रत्युपकृतीहातो, मा भूत् कीर्तीच्छया तथा ।।८।।
(वसन्ततिलका) छन्द्योऽपि नालसतया ननु लातु किञ्चित्, मा लातु प्रत्युपकृतिं ह्यपि दर्शयन् सः। सन्निर्जरा भवतु छन्दकसत्कलाभ, इत्येव धीरगुणयुक् ग्रहणं करोतु ॥ ९ ॥