________________
अथ आचारोपनिषद्
८. छन्दना गुर्वाज्ञया यथार्ह यद्, दानं प्राग्गृहीतस्य तु । अशनादेरियं सामा - चारी स्याच्छन्दनाभिधा ।।१।।
आत्मलब्धिक- विशिष्ट- तपस्व्यादि प्रतीत्य यत् । विशेषविषया चैषा, नाचर्या सकलैस्ततः ।। २ ।।
मण्डलिभोजिनस्सर्वे - प्येकभक्ततपस्विनः । प्रागगृहीताशनाऽभावा- दतस्तेषां भवेन्न सा ॥ ३ ॥
अधिकग्रहणं चात्म- लब्ध्यादेरस्ति सम्मतम् । बालादीनां प्रदानेन, ह्यात्मनो यदनुग्रहः ॥ ४ ॥