________________
अथ आचारोपनिषद्
७. प्रतिपृच्छा पूर्वनियुक्तकार्यस्य, पृच्छा या करणक्षणे । कार्यान्तरादिज्ञानार्थं, प्रतिपृच्छा तु सोच्यते ।। १ ।।
कार्यान्तरेण कार्यं स्यात्, कालान्तरेऽथवा भवेत् । कृतं वाऽस्ति तदा कार्य-मन्यो वा तत् करिष्यति ॥२॥
अथवाऽपि प्रवृत्तस्य, त्रिवारस्खलनावशात् । प्रतिपृच्छा प्रयोज्या स्यात्, ततः शकुनतो ब्रजेत् ।। ३ ।।
केचिदाहुः प्रतिपृच्छा, प्राग निषिद्धे प्रवर्त्तते । एवमपि न दोषो य - दुत्सर्गेतरयोवृषः ।। ४ ।।