________________
अथ आचारोपनिषद्
दृढप्रयत्नवैकल्यं, सञ्जायते नियोगतः । आशातनाभयाभावा - दतस्तद्भयवान् भवेत् ॥६॥
२४
शय्यां स्थानं यदा कुर्या - तदा नैषेधिकी भवेत् । यस्मात्तदा निषेधोऽस्ति, सा निषेधात्मिका च यत् ।।७।।
मूलोत्तरगुणानां यो प्रतिचाराणां निषेधकृत् । सती नैषेधिकी तस्य, वाङ्मात्रमितरस्य तु ॥ ८ ॥
-
( वसन्ततिलका)
मूलोत्तरैर्गुणगणैः सहितस्तु यः स, आवश्यकेन सहितो नियमान्निषिद्धः ।
यद्वा निषिद्धपुरुषः कृतपापहानः, सावश्यको नियमतो भवतीति तुल्यम् ॥ ९ ॥