________________
अथ आचारोपनिषद
दशमी चोपसम्पत् स्यात्, सामाचारी जिनोदिता । अनन्ता यां समाचर्य, तीर्णाः संसारसागरम् ॥ ६ ॥
४
यतनीयमतोऽवश्यं, सामाचारीसुपालने । श्रामण्यस्य सुनिर्वाह, एवमेव यतो भवेत् ।। ७ ॥
सामाचारीस्वरूपं तद्, विज्ञातव्यं प्रयत्नतः । तदविज्ञस्य सामर्थ्यं तद्विधौ सम्भवेन्न यत् ।। ॥
( उपजाति)
प्रदत्तशश्वच्छुभसौख्यभोगं, परम्पदं प्राप्तुममोघयोगम् । सिद्ध्यङ्गनाकार्मणमद्वितीय मेकाग्रचित्तं शृणुतैतदेव ।। ९ ।।
-