________________
भाषा रहस्य प्ररस भाग - २ / स्तजड-५ / गाथा - ८७
टीडा :
૧૨૩
कालशङ्किता या अनिर्णीतकालसम्बन्धविषया यथा गमिष्यामः स्थास्याम इत्याद्या अनागतकाले, इदं करोमीत्याद्या वर्त्तमानकाले, भवद्भिः सार्द्धमागतोऽहमिदं चाभ्यधामित्याद्या च (अतीतकाले ) तां न भाषेत तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः विघ्नतो वाऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गाच्च ।
यदि पुनरुत्सर्गतो निषिद्धमपि नक्षत्रादियोगं गृहस्थानां पुरः कथयेत् तदा निमित्तादेष्यत्कालज्ञानेऽपि विध्याराधनार्थमेवं वदेद् यत् 'अद्य यथेदं निमित्तं दृश्यते तथा वर्षेण भवितव्यम्' 'अमुको वाऽऽगमिष्यती 'ति, परनिश्चिताऽपि च त्रिषु कालेषु शङ्कितैव यथा देवदत्त इदं करिष्यतीत्याद्येति, तामपि न वदेत्, कथं पुनः परनिश्चितां वदेदिति चेत् ? इत्थम् अयमेवं भणति आगमिष्यामीति न पुनर्ज्ञायते आगमिष्यत्येवेति ।
कालादीति । आदिना देशादिपरिग्रहो यथा अत्रैव या (स्था) स्यामः इत्यादि, शङ्कितेत्युपलक्षणं अनवधृतमप्यर्थं न वदेत् अवधृतं तु निमित्तादिना कथयेत्, अनवधृते तु गन्धादौ परस्य तदनुभवप्रश्ने 'न विभावयामि' इत्युत्तरयेत् ।
या च व्यवहारतः सत्यापि सती काणपण्डकव्याधितस्तेनादिषु काणादिभाषा अप्रीतिलज्जानाशस्थिररोगबुद्धिविराधनादिदोषजननेन कुलपुत्रत्वादिना प्रसिद्धे दासादिभाषा च परप्राणसन्देहोत्पादकतयोपघातिनी भवति तामपि न भाषेत ।
तथा स्त्रियमधिकृत्य 'हे आर्थिके प्रार्जिके!' इत्याद्या तथा 'हे भट्टे ! स्वामिनी ! 'त्याद्या, ' हे होले ! गोले !' इत्याद्या वा या सङ्गगर्हा तत्प्रद्वेषप्रवचनलाघवादिदोषजननी पुरुषमधिकृत्यापि च पुल्लिंगाभिलापेनोक्तरूपा या आमन्त्रणी तामपि न भाषेत ।
कारणे तूत्पन्ने स्त्रियं पुरुषं वा नामधेयेनामन्त्रयेत् तदस्मरणे च 'हे काश्यपगोत्रे ! हे काश्यपगोत्र ! ' इत्यादिगोत्राभिलापेन वाऽऽमन्त्रयेत् ।।८७।।
टीडार्थ :
शङ्क आमन्त्रयेत् ।। द्वे खनिएगीत डालना संबंधना विषयवाणी अलशंडित छे ने પ્રમાણે ‘અમે જઈશું, અમે રહીશું' ઇત્યાદિ અનાગતકાલના વિષયમાં શંકિત છે. ‘હું આ કરું છું' ઇત્યાદિ વર્તમાનકાલમાં શંકિત છે અને ‘તમારી સાથે હું આવેલો' અને ‘મેં આ કહેલું’ ઇત્યાદિ અતીતકાલના વિષયમાં શંકિતભાષા છે તેને-ત્રણકાળના વિષયવાળી શંકિતભાષાને, સાધુ બોલે