________________
પરસ્ત્રીત્યાગ પ્રઝમ
शार्दूलविक्रीडितवृत्तम् नो हास्यं सुरतप्रपञ्चचतुरं नालिंगनं निर्भरं, नैवोरोजसरोजयुग्मललुठत् पाणिं प्रमीलामलम् ।
नो बिंबाधरचुंबनं स्थिरतया कुर्यात् पुमान् प्रेयसीमन्येषां रमयनिकामचकित: कामीति काम्या न ताः ।।१२१।।
पौराणां पुरतः प्रपञ्च्य महिमां दत्तः पितृभ्यां स्वयं, यो दत्वा स्वकरं करेण च वृतः सप्तार्चिषां साक्षिकम् ।
तं हित्वा पतिमीहते यदितरं या कामिनी कामिनं, तन्नूनं कथमात्मसाद्भवति सा स्वच्छंदसंचारिणी ।।१२२।।
पूर्णाऽप्यन्यपराभवैकतमसा यत्संगतो ग्रस्यते, प्रादुर्भूतकलंकपंककलित: सुश्लोकशीतद्युतिः ।
नीचाचारविधौ महानिव भवेदापातमात्रप्रिये, कोऽस्मिन् स्वैरविहारकारिणि सुधीः प्रीत: परस्त्रीजने ।।१२३।।