________________
स्वागतावृत्तम् पारदारिकनरः परपत्नी, तस्करश्च परकीयविभूतिम् ।
भोक्तुमिच्छति यथेह तथासा-वामिषोपचितमामिषलुब्धः ।।१००।।
DON
O
મઘત્યાગ પ્રમ
शार्दूलविक्रीडितवृत्तम्। स्वामित्वं समुपैति किंकरनरः प्रेष्यत्वमेति प्रभुः, शत्रुः सोदरता मुपैति भजते प्रत्यर्थितां सोदरः । जायात्वं जननी प्रयाति जननीभावं च जायाजनो, धर्मध्वंसधुराधुरीणमधुन: पानाभिभूतात्मनाम् ।।१०१।।
उपजातिवृत्तम् ददात्यदेयं च दधात्यधेयं, गायत्यगेयं च पिबत्यपेयम् ।
जयत्यजेयं च नयत्यनेयं, न किं सुरापानकरः करोति ।।१०२।।
SONAKAL