________________
पापापापहिताहितप्रियतमाप्रेयोऽभिधेयेतरध्येयाध्येयशुभाशुभप्रकटनच्छेके विवेके रतिः । यूनां चेतसि कांदिशीकहरिणीनेत्रेव चेद्रः प्रिया, तत्सत्संगमभंगरंगरसिकाः सेवध्वमात्मप्रियाः ||८२||
कीर्तिं कंदलयत्यघं दलयति प्रह्लादमुल्लासयत्यायासं निरुणद्धि बुद्धिविभवं सूते निशेते रिपून् । श्रेयः संचिनुते च बंधुरधियं धत्ते पिधत्ते भयं, किं किं कल्पलतेव नैव तनुते सद्यः सतां संगतिः ।। ८३ ।।
ज
वसंततिलकावृत्तम् संगात्सतां प्रथितबुद्धिसमृद्धिसिद्धेरुच्चैः पदं समुपयान्त्यपमाननीयाः । यत्सूत्रतंतुमपि सौरभसारपुष्पसंगाद्वहन्ति मुकुटेषु नराधिनाथाः ||८४||