________________
પૈશુન્ય પ્રઝમ चेत्पापापचयं चिकीर्षसि रिपोर्मूर्ध्नि क्रमौ धित्ससि, क्लेशध्वंसमभीप्ससि प्रवसनं सर्वागसां दित्ससे ।
दुष्कीर्तिं प्रजिहीर्षसि प्रतिपदं प्रेत्यश्रियं लिप्ससे, सर्वत्र प्रविधेहि तत्प्रियसखे! पैशुन्यशून्यं मनः ।।६।।
TOGARA..
नाग्नौनीररुहं न सर्पलपने पीयूषपुरः प्रभाभर्तु भ्युदयश्च पश्चिमगिरौ वल्ली न च व्योमनि ।
न स्थैर्य पवने मरौ न मरुतामुर्वीरूहः स्याद्यथा, दौर्जन्ये यशसां तथा नहि भरः सोमत्विषां सोदरः ।।७७।।
तत्संपत्तिमनुद्यम प्रकटयन् कीर्तिं च कुर्वन् कलिं, प्राणान् प्राणभृतां हरंश्च सुकृतं नृत्यं वितन्वंस्त्रपाम् ।
आरोग्यं च गिलनपथ्यमशनं विद्यां च निद्रां दधत्, काङ्क्षत्येष यदीहते सुभगतां पैशुन्यमासूत्रयन् ।।७८।।