________________
शार्दूलविक्रीडितवृत्तम् संबंधी प्रणयैः सरः कुवलयैः सेना च रंगद्धयैः, स्त्रीबाहुवलयैः पुरी च निलयैर्नृत्यं च तातालयैः।
गंधर्वश्च रयैः सभा सहृदयैरात्तव्रतो वाङ्मयैः, शिष्योघो विनयैः कुलं च तनयैराभाति भूपो नयैः ।।७३।।
नीति: कीर्तिवधूविलाससदनं नीति: प्रसिद्धेधुरा, नीति: पुण्यधराधिपप्रियतमा नीति: श्रियां संगम: । नीतिः सद्गतिमार्गदीपकलिका नीति: सखी श्रेयसां, नीति: प्रीतिपरंपराप्रसविनी नीति: प्रतीते: पदम् ।।७४।।
पूज्योपास्तिरनादरोऽधमनरे नो वञ्चना धर्मिणाम् , सत्या वाक् पुरतः प्रभोरनुचितत्यागोऽनुरागो निजैः । संग: साधुषु नित्यकृत्यकरणं स्नेहः सहौजस्विभिर्दीनानाथजनेषु चोपकरणं न्याय्योऽयमध्वा सताम् ।।७५।।