________________
वसंततिलकावृत्तम् मैत्री विमुञ्चतिसुहृद्विनयं विनेय:, सेवां च सेवकजनः प्रणयं च पुत्रः ।
नीतिं नृपो व्रतमृषिश्च तपस्तपस्वी, लोभाभिभूतहृदयः कुलजोऽपि लज्जाम् ।।४९।।
स्रग्धरावृत्तम् लोभाम्भोजालिशीतद्युतिरहिमरुचिः पुण्यपाथोजपुज्जे, शुद्धध्यानैकसौधः प्रगुणगुणमणिश्रेणिमाणिक्यखानि: ।
श्रेयोवल्ल्यालवाल: कलिमलकमलारामसंहारहस्ती, तृष्णाकृष्णाहिमंत्रो विशतु हृदिसतामेष संतोषपोषः ।।५०।।
પિતૃપૂજા પ્રઝમાં
शार्दूलविक्रीडितवृत्तम् तेनावादि यशः प्रसिद्धिपटहः प्राकारि यात्रोत्सवस्तीर्थानां च सताममोदि हृदयं प्राणोदि पापप्रथां ।
श्रेय:श्रेणिरवापि वंशसदने चारोपि धर्मध्वजो, येनापूजि पदद्वयी हितवती पित्रोः पवित्रात्मनोः
।॥५१॥